________________
कल्प. सुबो
व्या० ३ ॥ ४७ ॥
गगनं प्रति उच्छति, तथा च उत्प्रेक्ष्यते-अयं सिंहः किं गगनतलं भेत्तुं उद्यमं करोतीति?, (पिच्छइ) प्रेक्षते इति क्रियापदं अथ पुनः किंविशिष्टं ध्वजं ? - (सिवत्ति) शिवः - सौम्यः सुखकारी अत एव (मउअत्ति) मृदुको मन्दमन्द इतियावत् एवंविधो यो (मारुअत्ति) मारुतो - वायुस्तस्य (लयत्ति) लयः - आश्लेषो मिलनमितियावत् तेन (आयत्ति ) अहत-आन्दोलितो यः, तत एव (कंपमाणं ) चलनस्वभावो यः स तथा तं पुनः किंवि० ? - ( अइप्पमाणं ) अतिप्रमाणं महान्तं इत्यर्थः पुनः किंवि० ? - ( जणपिच्छणिजरूवं ) जनानां प्रेक्षणीयं द्रष्टुं योग्यं रूपं यस्य स तथा तं ८ । ( ४० ) ॥
(तओ पुणो ) ततः पुनः सा त्रिशला क्षत्रियाणी नवमे स्वप्ने रजतपूर्णकलशं रूप्यमयं पूर्णकुम्भं पश्यति, अथ किंविशिष्टं रजतपूर्णकलशं १- ( जच्चकंचणुज्जलंतरूवं) जात्यकाञ्चनवत् - उत्तमसुवर्णवत् उत्-प्राबल्येन दीप्यमानं रूपं यस्य स तथा तं यथा किल जात्यकाञ्चनस्य रूपं अतिनिर्मलं भवति तथा तस्य कलशस्यापि रूपं इति तात्पर्य, पुनः किंवि० ? - ( निम्मलजलपुन्नमुत्तमं ) निर्मलेन जलेन पूर्ण अत एव उत्तमं शुभसूचकं पुनः किंवि० ? - (दिप्पमाणसोहं ) दीप्यमाना शोभा यस्य स तथा तं पुनः किंवि०१ – (कमलकलावपरिरायमाणं) कमलकलापेन-कमलसमूहेन परिराजमानं सर्वतः शोभमानं, पुनः किंवि० ? - (पडिपुन्नत्ति) प्रतिपूर्णा, न तु न्यूना, एवंविधा ये (सव्वमं गलभे अत्ति ) सर्वमङ्गलभेदा - मङ्गलप्रकारास्तेषां (समागमं ) समागमः - सङ्केतस्थानमिव यथा सङ्केतकारिणो जनाः सङ्केतस्थाने अवश्यं प्राप्यन्ते तथा तस्मिन् कलशे दृष्टे अवश्यं सर्वे मङ्गलभेदाः प्राप्यन्ते इति भावः, पुनः
९ ध्वजस्व
मः सृ. ४१
1180 11