SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ARKAR- १० पद्मसर खमः सू, SARKAR किंवि०?-(पवररयणपविरायतकमलट्ठि) प्रबररत्नैः परिराजमानं यत् कमलं तत्र स्थितं, रत्नमयविकसितकमलोपरि स कलशो मुक्तोऽस्तीति भावः, पुनः किंवि०?-(नयणभूसणकरं ) नयनानां भूषणकरं-आनन्दकरमित्यर्थः, नयनयोहि आनन्द एव भूषणं यथा पद्मस्य विकाशः, पुनः किंवि०१-(पभासमाणं) प्रभासमानंदीप्यमानं प्रभया वाऽसमानं-निरुपम, पुन: किंवि०?-(सवओ चेव दीवयंत) सर्वतः-मर्वदिशं निश्चयेन दीपयन्तं, पुनः किंवि० ? (सोमलच्छित्ति) सौम्या-प्रशस्ता या लक्ष्मीस्तस्याः (निभेलणं) गृहं, अयं देश्यः शब्दः, पुनः किंवि० ?-(सव्वपाबपरिवजिअं) सर्वैः पापैः-अमङ्गलैः परिवर्जितं-रहितं, अत एव (सुभं भासुरं) शुभं भासुरं-दीप्यमानं (मिरिवरं ) श्रिया-शोभया प्रधानं, पुनः किंवि०१-(सव्वोउअसुरभिकुसुमत्ति) सर्व कानां-सर्व ऋतुजातानां सुरभिकुसुमानां-सुगन्धिपुष्पाणां सम्बन्धीनि (आसत्तमल्लदामं) आमक्तानि-कण्टे स्थापितानि माल्यदामानि यस्मिन् कलशे स तथा तं, (पिच्छ ).प्रेक्षते इति क्रियापदं (सा) सा त्रिशला (रययपुग्नकल) रजतस्य पूर्ण कलशं इदं विशेष्यम् ॥ ९॥४१॥ (तओ पुणो) ततः पुनः सा त्रिशला दशमे स्वप्ने पद्मसरः पश्यति, अथ किंविशिष्टं पद्मसरः ?-(रविकि| रणतरुणबोहिअत्ति) प्राकृतत्वाद्विशेषणस्य परिनिपातात् तरुणो-नूतनो यो रविस्तस्य ये किरणास्तैोंधितानि यानि (सहस्सपत्तत्ति) सहस्रपत्राणि-महापद्मानि तैः (सुरभितरत्ति) अत्यन्तं सुगन्धि (पिंजरजलं) पीतं रक्त च जलं यस्य तत्तथा, पुनः किंवि० ?-(जलचरपहकरत्ति) जलचरा-जलजीवास्तेषां 'पहकर'त्ति समूहस्तेन SAR
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy