________________
करूप: मुंबोव्या० ३ ॥४८॥
४२
(परिहत्थगत्ति) परिपूर्ण, सर्वतो व्याप्तं इत्यर्थः, तथा ( मच्छपरिभुज्जमाणजलसंचयं ) मत्स्यैः परिभुज्यमानो-व्यामियमाणो जलसञ्चयो यस्य तत्तथा, ततः कर्मधारयः, पुनः किंवि०१-(जलंतमिव) ज्वल
४१० पद्मसरः दिव-देदीप्यमानं इव, केन ?-(कमलत्ति) कमलानि-सूर्यविकाशीनि अम्बुजानि (कुवलयत्ति) कुव
खमः सू. लयानि च-चन्द्रविकाशीनि कमलानि ( उप्पलत्ति) उत्पलानि-रक्तकमलानि (तामरसत्ति) तामरसानिमहापद्मानि (पुंडरीयत्ति ) पुंडरीकानि-उज्ज्वलकमलानि, एतेषां नानाजातीयकमलानां यः (उरु) उरु-विस्ती
॥४८॥ र्णः (सप्पमाणत्ति) सर्पन्-प्रसरन् , एवंविधो यः (सिरिसमुदएणं) श्रीसमुदयः-शोभासमूहस्तेन, कमलानां शोभापकरेण हि शोभमानत्वं एव स्यात् न तु सूर्यबिम्बादिवद्देदीप्यमानत्वं अत उत्प्रेक्ष्यते-एतेषां विविधकमलानां शोभाप्रारभारेण ज्वलदिव-देदीप्यमानमिवेति, पुनः किं. १-(रमणिजख्वसोहं ) रमणीया-मनोरमा रूपशोभा यस्य तत्तथा, पुनः किंवि०१-(पमुइअंत) प्रमुदित अन्त:-चित्तं येषां ते प्रमुदितान्तरः, एवंविधा ये (भमरगणत्ति) भ्रमरगणाः (मत्तमहअरिंगणुक्करोलिजमाणकमलं) मत्तमधुकरीगणाश्च-भ्रमरजातिविशेषगणास्तेषां उत्कराः-समूहाः, भ्रमरमधुकरीणां बहूनि वृन्दानि इत्यर्थः, तैः अवलिह्यमानानि-आस्वाद्यमानानि कमलानि यत्र तत्तथा, पुनः किंवि०१-(कार्यबगबलाहयचक्कत्ति) कादम्बा:-कलहंसाः बलाहका-बलाकाः चक्राः-14 चक्रवाकाः (कलहंससारसत्ति) कला-मधुरशब्दा ये हमाः कलहंसा राजहंसा इत्यर्थः मारसा-दीर्घजानुका जीवविशेषाः इत्यादयो ये (गविअत्ति) गर्विता:-ताहकस्थानप्राप्त्याभिमानिनो ये (सउणगणमिहुणसेविज