________________
कल्प.मुबोव्या०३ ॥४५॥
६ शशी मू. ३८
शरापूरमिव-तूणीरमिव, अयमर्थः-यथा धनुर्धरस्तूणीरं प्राप्य मुदितो निःशङ्ख मृगादिकं शरैविध्यति एवं मदनोऽपि चन्द्रोदयं प्राप्य निःशङ्कं जनान् बाणैर्व्याकुलीकरोति, पुनः किंवि० ?-(समुद्ददगपूरगं) समुद्रोदकपूरकं, जलधिवेलावर्धकं इत्यर्थः, पुनः किंवि० ?-(दुम्मणं जणं दइअवजिअं) दुर्मनस्कं-व्यग्रं ईदृशं दयितेन-प्राणवल्लभेन रहितं जनं, विरहिणीलोकं इत्यर्थः. (पाएहिं सोसयंत ) पादैः-किरणैः शोषयन्तं, वियोगि| दुःखदं इत्यर्थः, यतः-'रजनिनाथ ! निशाचर ! दुर्मते !, विरहिणां रुधिरं पिबसि ध्रुवम् । उदयतोऽरुणता कथमन्यथा, तव कथं च तके तनुताभृतः ? ॥ १ ॥ (पुणो) पुनःशब्दो धुरि योजितः, पुनः किंवि०१-(सोमचारुरूवं ) यः सौम्यः सन् चारुरूपो-मनोहररूपः तं, (पिच्छह ) प्रेक्षते इति क्रियापदं (सा) सा, पुनः किंवि०?(गगणमंडलत्ति) गगनमण्डस्य-आकाशतलस्य (विसालत्ति) विशालं-विस्तीर्ण (सोनत्ति) सौम्यं-सुन्दराकारं (चकम्ममाणत्ति) चक्रम्यमाणं-चलनस्वभावं, एवंविधं (तिलयं ) तिलकं, तिलकमिव शोभाकरत्वात् , पुनः किंवि०?-(रोहिणीमणत्ति) रोहिण्याः-चन्द्रवल्लभाया मन:-चित्तं तस्य (हिअयत्ति) हितदो-हितकारी, एकपाक्षिकप्रेमनिरासार्थ हितद इति विशेषणं. ईदृशो (वल्लहं) वल्लभो यस्तं, इदं कविसमयापेक्षया, अन्यथा रोहिणी किल नक्षत्र, चन्द्रनक्षत्रयोश्च स्वामिसेवकभाव एव सिद्धान्ते प्रसिद्धो, न तु स्त्रीभर्तृभावः, (देवी) देवी-त्रिशला (पुण्णचंदं ) पूर्णचन्द्रं, इदं विशेष्यं ( समुल्लसंतं ) ज्योत्लया शोभमानम् ॥ ६॥ (३८)॥
(तओ पुणो) ततः पुनः-चन्द्रदर्शनानन्तरं सप्तमे स्वप्ने सूर्य पश्यति, अथ किंविशिष्टं सूर्य ?-(तमपडलप
RSSES