SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ययकलसपंडुरं ) गोक्षीरं- धेनुदुग्धं फेनं प्रसिद्धं दकरजांसि - जलकणाः रजतकलशो-रूप्यघटः तद्वत् पाण्डुरंउज्ज्वलं, पुनः किंवि० - ( सुभं ) शुभं - सौम्यं, पुनः किंवि० ? - ( हिअयनयणकंतं ) अत्र लोकानां इति शेषः, ततश्च लोकानां हृदयनयनयोः कान्तं-वल्लभं पुनः किंवि० ? - ( पडिपुण्णं ) प्रतिपूर्ण-पूर्णमासीसत्कं पुनः किंवि० ? ( तिमिरनिकरत्ति ) तिमिराणां - अन्धकाराणां निकरेण-समूहेन ( घणगुहिरत्ति ) घना - निविडा गम्भीरा ये वनगह्वरादयस्तेषां (वितिमिरकरं ) अन्धकाराभावकरं, वनगहरस्थितान्धकारनाशकं इत्यर्थः, यदुक्तं - 'विरम तिमिर ! साहसादमुष्माद्यदि रविरस्तमितः स्वतस्ततः किम् ? । कलयसि नः पुरो महो महोर्मिस्फुटतर कैरवितान्तरिक्षमिन्दुम् ? || १ ||' पुनः किंवि० ? - ( पमाणपतत्ति) प्रमाणपक्षौ - वर्षमासादिमानकारिणौ यौ पक्षौ-शुकृष्णपक्षौ तयोः अन्तः - मध्ये पूर्णिमायां इत्यर्थः तत्र ( रायलेहं ) राजन्त्यः - शोभमानाः लेखाः – कला यस्य स तथा तं पुनः किंवि० ? - ( कुमुअवणविबोहगं ) कुमुदवनानां - चन्द्रविकाशिकमलवनानां विबोधकं — विका शकं, यतः - 'दिनकरतापव्यापप्रपन्नमूर्च्छानि कुमुदगहनानि । उत्तस्थुरमृतदीधितिकान्तिसुधासेकतस्त्वरितम् ॥ १ ॥ पुनः किंवि० १ - ( निसासोहगं ) निशाशोभकं - रात्रिशोभाकारकं, पुनः किंवि० ? - ( सुपरिमट्ठदप्पणतलोमं ) सुपरिमृष्टं - सम्यक्प्रकारेण रक्षादिना उज्ज्वलितं यत् दर्पणतलं तेन उपमा यस्य स तथा तं पुनः किंवि० ? - ( हंस पडुवन्नं ) हंसवत् पटुवर्ण- उज्ज्वलवर्ण इत्यर्थः पुनः किंवि० ? - ( जोइस मुहमंडगं ) ज्योतिषां मुखमण्डकं, पुनः किंवि० १ ( तमरिपुं ) अन्धकारवैरिणं, पुनः किंवि० ? - ( मयणसरापूर गं ) मदनस्य — कामस्य ६. शशी सू. ३८
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy