SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ * पुष्पदाम * कल्प.सुबोव्या०३ ॥४४॥ ॥४४॥ * * * य उपमानरहितः अद्वितीय इतियावत् मनोहरश्च-चित्तालादकः एवंविधन गन्धेन ( दश दिसाओवि वासका यंत) दशापि दिशः वासयत्-सुरभीकुर्वत्, पुनः किंवि०?-(सब्बोउअसुरभिकुसुममल्लधवलत्ति ) सर्वर्तुकं यत् सुरभि-सुगन्धं पुष्पमाल्यं तेन धवलं, अयमर्थः-षण्णां अपि ऋतूनां सम्बन्धिन्यः पुष्पमालास्तत्र दामनि वर्त्तन्ते इति, तथा (विलसंतत्ति) दीप्यमाना अत एव (कंतत्ति) कान्ता-मनोहरा ये (बहुवन्नभत्तिचित्त) बहवो वर्णा-रक्तपीतादयस्तेषां 'भत्तित्ति रचना तया चित्रं-आश्चर्यकारि अथवा चित्रयुक्तं इव, ततश्च विशेषणदूयस्य कर्मधारयः कर्तव्यः, अनेन च विशेषणेन तत्र पुष्पदामनि भूयान् धवल एव वर्णों वर्तते स्तोकस्तोकाश्च अन्येऽपि वर्णा वर्तन्ते इत्यर्थः सूचितः, पुनः किंवि• ?-(छप्पयमहुअरिभमरगणगुमगुमायंतनिलिंतगुंजंतदेसभागं) अत्रापि विशेषणस्य परनिपातो. गुमगुमायमानो-मधुरं शब्दं कुर्वन् अन्यस्थानात् आगत्य तत्र दामनि लयं प्राप्नुवन् अव्यक्तं शब्दविशेष कुर्वन् एवंविधो यः षट्पद 1 मधुकरी २ भ्रमरा३ णां-भ्रमरजातिविशेषाणां यो गणः-समूहः स देशभागेषु-शिवाप्रभागपार्श्वद्वयाऽधोभागादिकेषु देशभागेषु यत्र तत्तथा, कोऽर्थः?तद्दाम सौरभ्यातिशयात् सर्वभागेषु भ्रमरैः सेवितमस्तीति भावः, अत्र षट्पदमधुकरीभ्रमराणां च वर्णादिभिर्भेदो ज्ञेयः (दाम) पुष्पदाम, इदं विशेष्यं (पिच्छइ) प्रेक्षते इति क्रियापदं, पुनः किंवि०?-(नभंगण| तलाओ) नभोङ्गणतलात् ( उवयंतं) अवपतत्-उत्तरत् ५॥ (३७)।। (ससिंच) ततः पुनः सा त्रिशलादेवी षष्ठे स्वप्ने शशिनं पश्यति, अथ कीशं?-(गोखीरफेणदबरयर *
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy