SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० २ ॥४२॥ लेणं ) सुभगानि - दृष्टिसुखकराणि यानि जालानि - मुक्तागुच्छानि तैः उज्ज्वलेन एवंविधेन (मुत्ताकलाबएणं) मुक्ताकलापकेन - मौक्तिकहारेण शोभितां, अत्र शोभितां इतिपदं सूत्रे अनुक्तं अपि अध्याहार्य, एवं अग्रे विशेषणद्वयेऽपि, पुनः किंवि० ? (उरत्थदीणार मालविरइएणं) उरःस्थया - हृदयस्थितया दीनारमालया - सौव - णिकमालमालया विराजितेन (कंठमणिसुत्तएणं) कण्ठमणिमूत्रकेण च - कण्ठस्थरत्नमयदवरकेण, शोभितां इति पूर्ववत्, पुनः किंवि० ? ( कुंडलजुअलुल्लसंत अंसोव सत्तसो भंतसप्प मेणं ) तत्र ईदृशेन शोभागुणसमुदयेनकान्तिगुणप्राग्भारेण शोभितां इति योजना, अथ कीदृशेन शोभागुणसमुदयेन ?, अत्र ' अंसोवसत्त ' इति पदं प्राकू योज्यं ततः ' असोवसत्त'त्ति अंसयोः - स्कन्धयोः उपसक्तं - लग्नं यत् कुण्डलयोर्युगलं तस्य ' उल्लसं त'त्ति उल्लसन्ती 'सोभंत'त्ति शोभमाना अत एव 'स'त्ति सती-समीचीना 'पभ'त्ति प्रभा - कान्तिर्यस्मिन् एवंविधेन ( सोभागुणसमुदयेणं) शोभागुणसमुदयेन, पुनः कीदृशेन शो० ? ( आणणकुटुंबिएणं ) आननस्य – मुखस्य कौटुम्बिकेनेव, यथा राजा कौटुम्बिकैः- सेवकैः शोभते एवं श्रीदेव्या आननं तेन शोभागुणसमुदयेनेति भावः, अत्र 'उल्लसंत'त्ति 'सोभन्ते 'त्यादीनि शोभागुणसमुदयस्य विशेषणानि 'असोवसत्ते' ति च कुण्डलयुगलविशेषणं, ननु तर्हि प्रभागुणसमुदयविशेषणयोर्मध्ये कुण्डलयुगलविशेषणं कथं न्यस्तं ? तथा 'अंसोवसत्ते' त्यस्य कुण्डलयुगलात् परनिपातश्च कथं ? अंसोवसत्त कुंडलजुयलुल्लसंतेति पाठः कथं न कृत इति चेदू, उच्यते, प्राकृतत्वात् अन्यविशेषणमध्येऽप्यन्यविशेषणावतारो विशेषणस्य परनिपातश्च भवति, एवं श्रीदेवीर्णनं सू. ३६ ॥४२॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy