SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्रीदेव्य| भिषेक सर्वत्र विशेषणपरनिपाते हेतज्ञेयः, पुन: किंविशिष्टां श्रीदेवतां?-(कमलामलविसालरमणिज्जलोअणिं)। कमलवत् अमले-निर्मले विशाले-विस्तीर्णे रमणीये-मनोहरे च लोचने यस्याः सा तथा तां, पुनः किंवि०?(कमलपज्जलंतकरगहिअत्ति) तत्र पूर्ववत् प्राकृतत्वात् विशेषणस्य परनिपातः, ततः प्रज्वलन्तौ-देदीप्यमानौ | यो करौ-हस्तौ ताभ्यां गृहीते ये कमले ताभ्यां (मुक्कतोब) मुक्तं-क्षरत् तोयं-मकरन्दरूपं जलं यस्याः सा तथा | तां, अयमर्थः-श्रीदेव्या तावद् द्वयोः करयोः प्रत्येकं कमलं गृहीतमस्ति, तस्माच मकरन्दबिन्दवः अवन्तीति, पुनः किंवि०?-(लीलावायत्ति ) लीलया, न तु प्रस्वेदापनोदाय, प्रस्वेदस्य दिव्यशरीरेष्वभावात् , लीलया वायत्ति-वातोदीरणार्थं ( कयपक्खएणं) कृतः-अवधूतो यः पक्षकः-तालवृन्तं तेन शोभितां, अत्रापि शोभितां इति पदं अध्याहार्य, पुनः किंवि० ?-(सुविसदत्ति) सुविशदः-सुविविक्तो, न पुनर्जटाजूटवत् परस्परसंलग्नः ( कसिणत्ति) कृष्णः-श्यामवर्णः (घणत्ति) घन:-अविरलो, न तु मध्ये मध्ये रिक्तः, (सण्हत्ति) सूक्ष्मो, न तु शंकररोमवत्स्थूलः (लंबंतत्ति) लम्बमानः (केसहत्थं ) केशहस्तो-वेणिर्यस्याः सा तथा तां, पुनः किंवि०१-(पउमद्दहकमलवासिणिं) पद्मद्रहस्य यत्कमलं पूर्वोक्तस्वरूपं तत्र निवसन्ती (सिरिं) श्रियं-श्रीदेवतां, इदं विशेष्यं, पुनः किंवि०१-(भगवई) भगवती-ऐश्वर्यादियुतां (पिच्छह ) प्रेक्षते, इदं क्रियापदं, पुनः किंवि० ?-(हिमवंतसेलसिहरे) हिमवन्नामा पर्वतस्तस्य शिखरे HA RSHA.4.
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy