________________
कल्प. सुबोव्या० २
॥४१॥
लाक्षादिना रञ्जिता इव (मंसलउवचिअत्ति) मांसयुक्ताः, तत एव उपचिताः - पुष्टाः (तणुतंबणिनहं) तनव:सूक्ष्माः, न तु स्थूलाः, ताम्रा - अरुणाः लिग्धाः - अरूक्षा नखा यस्याः सा तथा तां, पुनः किंवि० ? ( कमलपलाससुकुमालकरचरणं ) कमलस्य पलाशानि पत्राणि तद्वत् सुकुमालं करचरणं यस्याः सा तथा तां (कोमलवरंगुलिं ) कोमला अत एव वराः-श्रेष्ठाः अङ्गुलयो यस्याः सा तथा तां, ततो विशेषणसमासः पुनः किंवि० ? (कुरुविंदावत्तत्ति) कुरुविन्दावर्त - आवर्त्तविशेष आभरणविशेषो वा तेन शोभिते (वहाणुपुब्वत्ति) वृत्तानुपूर्वे, कोऽर्थ:- पूर्वं बहुस्थूले ततः स्तोकं स्तोकं स्थूले करिकरवत् (जंघं) ईदृशे जङ्घे यस्याः सा तथा तां पुनः किंवि० ? ( निगूढजाणुं ) निगूढे-गुप्ते जानुनी यस्याः सा तथा तां, पुनः किंवि० ? ( गयवरकरसरिसपीवरोरुं ) गजबरो - गजेन्द्रस्तस्य कर :- शुण्डा तत्सदृशे पीवरे-पुष्टे उरू यस्याः सा तथा तां, उरुशब्देन लोके 'साथल ' इत्युच्यते, पुनः किंवि० ( चामीकररइ अमे हलाजुत्तं ) सुवर्णरचिता - सुवर्णमयी इत्यर्थः एवंविधा या मेखला तया युक्तं, अत एव ( चारुविच्छिन्न सोणिचकं ) मनोहरं विस्तीर्ण श्रोणिचक्रं -कटितटं यस्याः सा तथा तां पुनः किंवि ०? (जचंजणत्ति ) जात्याञ्जनं-मर्दितं तैलादिना अञ्जनं ( भमरजलयपयरत्ति ) भ्रमराणां प्रसिद्धानां जलदानां चमेघानां यः प्रकरः- समूहः तत्समानवर्णतया जात्याञ्जनभ्रमरजलदप्रकर इव (उज्जुअसमसंहिअत्ति ) ऋजुकाप्रध्वरा अत एव समा-अविषमा संहिता - निरन्तरा ( तणुअआइज्जलडहत्ति ) तनुका - सूक्ष्मा आदेया- सुभगा लटभा - विलास मनोहरा ( सुकुमालमउअत्ति ) सुकुमालेभ्यः शिरीषपुष्पादिवस्तुभ्योऽपि मृदुका तत एव ( रम
श्रीदेवीव
र्णनं सू. ३६
॥४१॥