SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ बलयपरित वारवर्णनं KARACTEOSAIRCROSROS | काराणि पूर्वोक्तमानादर्धमानोचत्वदीर्घत्वपृथुत्वानि अष्टोत्तरशतकमलानि, एवं सर्वेष्वपि वलयेषु क्रमेणार्धार्धमानत्वं ज्ञेयं, इति प्रथम वलयम् , द्वितीयवलये वायव्येशानोत्तरदिक्षु चतुःसहस्रसामानिकदेवानां चतुःसहस्री कमलानां, पूर्वदिशि चत्वारि महत्तराकमलानि, आग्नेय्यां गुरुस्थानीयाभ्यन्तरपर्षदेवानां अष्टसहस्रकमलानि, दक्षिणदिशि मित्रस्थानीयमध्यमपर्षदेवानां दशसहस्रकमलानि, नैर्ऋत्यां किङ्करस्थानीयवाह्यपर्षद्देवानां द्वादशसहस्रकमलानि, पश्चिमायां च हस्ति १ तुरङ्गम २ रथ ३ पदाति ४ महिष ५ गन्धर्व ६ नाट्य ७ रूपसप्तकटकनायकानां सप्त कमलानि, इति द्वितीयं वलयम्, ततस्तृतीये वलये तावतां अङ्गरक्षकदेवानां षोडशसहस्र| कमलानि, इति तृतीयं वलयं, अथ चतुर्थे वलये अभ्यन्तराभियोगिकदेवानां द्वात्रिंशल्लक्षकमलानि, पञ्चमे वलये मध्यमाभियोगिकदेवानां चत्वारिंशल्लक्षकमलानि, षष्ठे वलये बाह्याभियोगिकदेवानां अष्टचत्वारिंशल्लक्षकमलानि, सर्वसंख्यया च मूलकमलेन सह एका कोटिर्विंशतिर्लक्षाः पञ्चाशत् सहस्राः शतमेकं विंशतिश्च १२०५०१२० कमलानामिति । अथ एवंविधं यत्कमललक्षणं स्थानं तत्र स्थितां, पुनः किंवि०? (पसत्थरूवं) प्रशस्तरूपां, मनोहररूपां इत्यर्थः, पुनः किंवि०? (सुपइट्टिअत्ति) सुप्रतिष्ठितौ-सम्यकतया स्थापितौ यौ (कणगमयकुम्मत्ति) कनकमयकच्छपी तयोः ( सरिसोवमाणचलणं) सदृशं-युक्तं उपमानं ययोः एवंविधौ चरणौ यस्याः सा तथा तां, पुनः किंवि०? ( अच्चुन्नयत्ति) अत्युन्नतं तथा (पीणत्ति) पीनं-पुष्टं यत् अङ्गुष्ठादि अङ्गं तत्र स्थिताः (रइअ) रञ्जिता इव, अयमर्थः-श्रीदेव्याः स्वयमेव नखास्तथा रक्ताः सन्ति यथा उत्प्रक्ष्यन्ते
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy