SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ कल्प सुबो लक्ष्म्यभिषेकवर्णन व्या०२ ॥४०॥ ॥४०॥ महं) गाद-अत्यन्तं तीक्ष्णानि अग्राणि येषां एवंविधा नखा यस्य स तथा तं (सीहं ) केसरिणं इति विशेष्यं, पुनः किंवि०? (वयणसिरित्ति) वदनस्य श्री:-शोभा तदर्थ (पल्लवपत्तत्ति) पल्लववत् प्रसारिता (चारुजीहं) मनो. हरा जिह्वा येन स तथा तं ३ ॥ (३५)॥ (तओ पुणो) ततः पुनः-सिंहदर्शनानन्तरं (पुन्नचंदवयणा) पूर्णचन्द्रवदना त्रिशला भगवतीं श्रियं-श्रीदेबतां पश्यतीति योजना, अथ किंविशिष्टां तां? (उच्चागयठाणलट्ठसंठिअं) उच्चो योगः-पर्वतो हिमवान् तत्र जातं उच्चागज एवंविधं लष्टं-प्रधानं यत् स्थान--कमललक्षणं तत्र संस्थितां, तच्चैवं-एकशतयोजनो १००च्चो द्वादशकलाधिकद्विपश्चाशद्योजनोत्तरयोजनसंहस्र १०५२२३ पृथुल: स्वर्णमयो हिमवन्नामा पर्वतः, तदुपरि च दशयोजनावगाढः १० पश्चशतयोजनपृथुलः ५०० सहस्र १००० योजनदी? वज्रमयतलभागः पमहदनामा हृदः, तस्य मध्यभागे जलात् क्रोशद्वयोचं एकयोजनपृथुलं एकयोजनदीर्घ नीलरत्नमयदशयोजननालं वज्रमयमूलं रिष्ठरत्नमयकन्दं रक्तकनकमयबाह्यपत्रं कनकमयमध्यपत्रं एवंविधं एकं कमलं, तस्मिन् कमले च क्रोशद्वयपृथुला क्रोशद्वयदीर्घा एकक्रोशोचा रक्तसुवर्णमयकेसराविराजिता एवंविधा कनकमयी कर्णिका, तस्था मध्ये च अर्धक्रोशपृथुलं एकक्रोशदीर्घ किंचिदुनैकक्रोशोचं श्रीदेवीभवनं, तस्य च त्रीणि द्वाराणि पश्चशतधनुरुचानि तदर्धमानपृथुलानि पूर्वदक्षिणोत्तरदिकस्थितानि, अथ तस्य भवनस्य मध्यभागे सार्धशतद्वयधनुर्मिता रत्नमयी वेदिका, तदुपरि च श्रीदेवीयोग्या शय्या, अथ तस्मान्मुख्यकमलात्परितश्च श्रीदेव्या आभरणभृतानि वलया
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy