________________
कल्प.सुबोव्या०२ ॥३९॥
सिंहस्वमवणनं मू.३५ | ॥३९॥
SANSAR
तं, पुनः किंवि० ? (दंतं ) दान्तं-अक्रूर (सिवं ) उपद्रवहरं, पुनः किंवि०१ (समाणसोहंतसुद्धदंतं) समाना:तुल्यप्रमाणाः अत एव शोभमानाः श्वेता निर्दोषा वा दन्ता यस्य स तथा तं, पुनः किंवि• ? (अमिअगुणमंगलमुहं ) अमिता गुणा येभ्य एवंविधानि यानि मङ्गलानि तेषां मुखं-द्वारं, आगमनकारणमित्यर्थः २॥(३४)॥
(तओ पुखो) ततः पुनर्वृषभदर्शनानन्तरं सा त्रिशला सिंहं पश्यति, अथ किंविशिष्टं सिंहं ?-(हारनिकरवीरसागरससंककिरणदगरयरययमहासेलपंडुरतरं) हारनिकरक्षीरसागरशशाङ्ककिरणदकरजोरजतमहाशैलाः पूर्व व्याख्यातास्तद्वत्पाण्डुरं-उज्ज्वलं, पुनः किंवि.? (रमणिज्जपिच्छणिज्जं ) रमणीयं-मनोहर | अत एव प्रेक्षणीयं-द्रष्टुं योण्यं, पुनः किवि? (थिरलट्ठत्ति) स्थिरी-दृढौ अत एव लष्टौ-प्रधानौ (उपट्टत्ति) प्रकोष्टौ-कलाचिके 'पउंचा' इति लोकप्रसिद्धौ हस्ताययवौ यस्य स तथा तं, पुनः किंवि० ? (वदृत्ति) वृत्ताःवर्तुलाः (पीवरत्ति) पीवराः-पुष्टाः (सुसिलिट्ठत्ति) मुश्लिष्टा-अन्योऽन्यं अन्तररहिताः,अत एव (विसिट्टत्ति) विशिष्टाः-प्रधानाः (तिक्खत्ति) तीक्ष्णा एवंविधा याः (दाढा) दंष्ट्रास्ताभिः (विडंबिअमुहं) विडम्बितं, कोऽर्थः-अलङ्कृतं मुख यस्य स तथा तं, ततो विशेषणकर्मधारयः, पुनः किंवि० ? (परिकम्मिअत्ति) परिकर्मिताविव परिकर्मिती (जच्चकमलकोमलत्ति) जात्य-उत्तमजातिसम्भवं यत्कमलं तद्वत् कोमलौ, तथा (पमाणसोभंतत्ति) यथोक्तमानेन शोभमानौ, तथा (लउडे) लष्टौ-प्रधानौ एवंविधो ओष्ठौ यस्य स तथा तं, पुनः किंवि०१ (रत्तुप्पलपत्तत्ति) रक्तोत्पलं-रक्तकमलं तस्य यत् पत्रं तद्वत् (मउअसुकुमालतालत्ति) मृदुसुकुमालं