SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ वृषभस्वमवर्णनं मू. (तओ पुणो ) ततः पुनः-गजदर्शनानन्तरं वृषभं पश्यतीति सम्बन्धः, अथ किंविशिष्टं वृषभं ? (धवलकमलपत्तत्ति) धवलानां-उज्ज्वलानां कमलानांयानि पत्राणि तेषां (पयरत्ति) प्रकरः-समूहस्तस्मात् (अइरेगत्ति) अतिरेका-अधिकतरा (रूवप्पभ) रूपप्रभा-रूपकान्तिर्यस्य स तथा तं, पुनः किंवि०? (पहासमुदओवहारेहिं) प्रभा-कान्तिस्तस्याः समुदयः-समूहस्तस्य उपहारा-विस्तारणानि तैः (सव्वओ) सर्वतो-दशापि दिशः (चेव ) निश्चयेन (दीवयंतं ) दीपयन्तं-शोभयन्तं, पुनः किंवि० ? ( अइसिरिभरत्ति ) अतिशयितः श्रीभरःशोभासमूहस्तेन कृता या (पिल्लणा) प्रेरणा, उत्प्रेक्ष्यते तयेव (बिसप्पंतत्ति) विसर्पत-उल्लमत् अत एव(कांतत्ति) कान्तं-दीप्तिमत् तत एव (सोहंतत्ति) शोभमानं (चारु) मनोहरं (ककुहं ) ककुदं-स्कन्धो यस्य स तथा तं, अयमर्थः-यद्यपि स्कन्ध उन्नतत्वात् स्वयमेव उल्लसति तथापि अतिश्रीभरप्रेरणयैव उल्लसतीत्युत्प्रेक्ष्यते, पुनः किंवि? (तणुसुद्धसुकुमालत्ति ) तनूनि-सूक्ष्माणि शुद्धानि-निर्मलानि सुकुमालानि ईदृशानि यानि (लोमत्ति) रोमाणि तेषां (णि छविं) स्निग्धा-सलेहा, न तु रूक्षा, छवि:-कान्तिर्यस्य स तथा तं, पुनः किंवि०? (थिरसुबद्धत्ति (स्थिरं-दृढं अत एव सुबद्धं (मंमलोवचिअ) मांसयुक्तं अत एव 'उवचिय'त्ति पुष्टं (लट्ठत्ति) लष्ट-प्रधानं (सुविभत्तत्ति) सुविभक्त-यथास्थानस्थितसर्वावयवं, ईदृशं (सुंदरंग) सुन्दरं अङ्गं यस्य स तथा तं, (पिच्छइ) दिसा त्रिशला प्रेक्षते इदं क्रियापदं, पुनः किंवि० ? (घणवदृत्ति) घने-निचिते वृत्ते-वर्तुले (लट्ठ उकिट्ठत्ति) लष्टात् प्रधानादपि उत्कृष्टे, अतिप्रधाने इत्यर्थः (तुप्पग्गत्ति) म्रक्षिताग्रे (तिक्खसिंग) तीक्ष्णे ईदृशे शृङ्गे यस्य स तथा
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy