________________
कल्प.सुबो
व्या०२
॥३८॥
विपुलजलहर ) गलितो-वर्षणादनन्तरकालभावी, स हि दुग्धवों भवति, एवंविधो यो विपुलजलधरो-महामेघस्तंथा ( हारनिकरत्ति) पुञ्जीकृतो मुक्ताहारः (खीरसागरत्ति) दुग्धसमुद्रः (ससंककिरणत्ति) चन्द्रकिरणाः
गजस्वमव(दगरयत्ति) जलकणाः (रयणमहासेलपंडुरं) रजतस्य-रूप्यस्य महाशैलो-महान् पर्वतो वैतात्यः तद्वत्पाण्डुरः,
र्णनं सू.३३
॥३८॥ ततश्च उच्छूितश्चासौ पूर्वोक्तसर्ववस्तुवत्पाण्डुरश्चेति कर्मधारयः ततस्तं, पुनः कीदृशं?-(समागयत्ति) समागतागन्धलोभेन मिलिताः (महुअरत्ति) मधुकरा-भ्रमरा यत्र तादृशं यत् (सुगंधत्ति) विशिष्टगन्धाधिवासितं (दाणत्ति ) मदवारि तेन (वासिअत्ति) सुरभीकृतं (कवोलमूलं ) कपोलयोर्मूलं यस्य स तथा तं, तस्य कपोलमूलं दानवासितं अस्ति, तद्गन्धेन भ्रमस अपि तत्र मिलिताः सन्तीति भावः, पुनः कीदृशं? ( देवरायकुंजरवरप्पमाणं ) देवराजो-देवेन्द्रस्तस्य कुञ्जरो-हस्ती तद्वत् वरं-शास्त्रोक्तं प्रमाणं-देहमानं यस्य स तथा तं (पिच्छइ) प्रेक्षते पश्यतीति, इदं क्रियापदं 'इभं' इत्यनेन पूर्व योजितं, पुनः कीदृशं ? (सजलघणविपुलजलहरगजिअगंभीरचारुघोसं) सजलो-जलपूर्णस्तस्य हि ध्वनिर्गम्भीरो भवति एवंविधो यो घनो-निविडो विपुलजलधरो-महामेघस्तस्य यद्गर्जितं तद्वत् गम्भीरश्चारुः मनोहरश्च घोषः-शब्दो यस्य स तथा तं, महामे-12 घवत् स गजो गर्जतीति भावः, (इभ) गजं, इदं विशेष्यं, पुनः कीदृशं ? (सुभ) शुभ-प्रशस्य, पुनः कीदृशं? (सव्वलक्खणकयंबिअं) सर्वलक्षणानां कदम्बः-समूहस्तज्जातं यस्य स तथा तं, पुनः कीदृशं ? ( वरोरु) वरः-प्रधानः उका-विशालच, एवंविधं हस्तिवरं प्रथमे स्वप्ने त्रिशला पश्यतीति ॥१॥