________________
कल्प. सुबो
व्या० २
॥३७॥
(सुगंध वरगंधिए ) सुगन्धाः - सुरभयो ये वरगन्धाः - प्रधानचूर्णानि तेषां गन्धो यत्र तत् तथा तस्मिन् पुनः किंवि० ? ( गंधवट्टिए ) गन्धवर्तिः - गन्धद्रव्यगुटिका तत्सदृशेऽतिसुगन्धे इत्यर्थः, एतादृशे वासभवने, अथ ( तंसि ) तस्मिन् (तारिसगंसि) तादृशे - वक्तुं अशक्यस्वरूपे महाभाग्यवतां योग्ये ( सयणिजंलि ) शयनये, पल्यङ्क इत्यर्थः, इदं विशेष्यं, किंविशिष्टे ? - ( सालिंगणवद्दिए ) सालिङ्गनवर्त्तिके-आलिङ्गनवर्त्तिका नाम शरीरप्रमाणं दीर्घं गण्डोपधानं तया सहिते, पुनः किंवि०१ ( उभओ ) उभयतः- शिरोऽन्तपादान्तयोः (बिन्योअणे) उच्छीर्षके यत्र तत्तथा तस्मिन् पुनः किंवि० ( उभओ उन्नर ) यत उभयत उच्छीर्षकयुक्ते, अत एव उभयत उन्नते, पुनः किंवि० ? - ( मज्झे णयगंभीरे ) तत एव मध्ये नते गम्भीरे च, पुनः किंवि०:(गंगापुलिनवालुआउद्दालसालिसए) तत्र 'उद्दाल'त्ति उद्दालेन - पादविन्यासे अधोगमनेन गङ्गातटवालुकासदृशे, अयमर्थः यथा गङ्गापुलिनवालुका पादे मुक्ते अधो व्रजति तथा अतिकोमलत्वात् स पल्यङ्कोऽपीति ज्ञेयं, पुनः किंवि० १. ( उवचिअत्ति) परिकर्मितं (खोमिअत्ति) क्षौमं - अतसीमयं (दुगुल्ल पट्टत्ति) दुकूलं वस्त्रं तस्य यः पट्टो युगलापेक्षया एकपट्ट: तेन ( पडिच्छन्ने ) आच्छादिते, पुनः किंवि० ? - ( सुविरइअरत्ताणे ) सुष्टु विरचितं रजस्त्राणं- अपरिभोगावस्थायां आच्छादनं यत्र तस्मिन् पुनः किंवि० ? - ( रक्तंसुअसंबुडे ) रक्तांशुकेन- मशकगृहाभिधानेन रक्तवस्त्रेणाच्छादिते तथा ( सुरम्मे ) अतिरमणीये, पुनः किंवि० ? ( आइणगरूअबूरनवणीअतूलतुल फासे ) आजिनकं - परिकर्मितं चर्म रूतं - कर्पासंपक्ष्म बूरो- वनस्पतिविशेषः नवनीतं - प्रक्षणं
वासगृहश यनीयवर्णनं
सू. ३३ ॥३७॥