________________
वासगृहश: यनीयवर्णन
दत्ताए साहरिए ) कुक्षौ गर्भतया मुक्तः (तं रयणि च र्ण) तस्यां रजन्यां ( सा तिसला खत्तिआणी)
सा त्रिशला क्षत्रियाणी (तसि ) तस्मिन् (तारिसगसि) ताशे-वक्तुं अशक्यस्वरूपे महाभाग्यवतां योग्ये | (वासघरंसि ) वासगृहे, शयनमन्दिरे इत्यर्थः, किंविशिष्टे वासगृहे ?-( अम्भितरओ सचित्तकम्मे ) मध्ये चित्रकर्मरमणीये, पुनः किंवि०१-( बाहिरओ) बाह्यभागे (दुमिअ) सुधादिना धवलिते (घट्टे) कोमलपाषाणादिना घृष्टे, अत एव ( महे) सुकोमले, पुनः किंवि०१-(विचित्तउल्लोअचिल्लिअतले) विचित्रो-विविधचिअकलित उल्लोक-उपरिभागो यत्र तत्तथा (चिल्लिअ) देदीप्यमानः (तलः) अधोभागो यत्र तत्तथा, ततः कर्मधारये विचित्रोल्लोकचिल्लिअतले, पुनः किंवि०१-(मणिरयणपणासिअंधयारे) मणिरत्नप्रणाशितान्धकारे, | पुनः किंवि०? (बहुसमत्ति) अत्यन्तं सम:-अविषमः पञ्चवर्णमणिनिबद्धत्वात् (सुविभत्तत्ति) सुविभक्त:-विवि. | धस्वस्तिकादिरचनामनोहरः एवंविधो ( भूमिभागे) भूमिभागो यत्र तस्मिन् , पुनः किंवि०? (पंचवन्नसरससुरहिमुक्कपुप्फपुंजोवयारकलिए) पञ्चवर्णेन सरसेन सुरभिणा 'मुक्कत्ति इतस्ततो विक्षिप्तेन ईदृशेन पुष्पपुञ्जलक्षणेन उपचारेण-पूजया कलिते, पुनः फिवि०?-(कालागुरुत्ति) कृष्णागरु प्रसिद्धं (पवरकुंदुरुक्कत्ति ) विशिष्ट|श्वीडाभिधानो गन्धद्रव्यविशेषः ( तुरुकत्ति ) तुरुष्कं-सिल्हकाभिधानं सुगन्धद्रव्यं (मघमघंतत्ति ) दह्यमानो
धूपो-दशाङ्गादिरनेकसुगन्धद्रव्यसंयोगसमुद्भूतः एतेषां वस्तूनां सम्बन्धी यो (मघमघंतत्ति) मघमघायमानोडतिशयेन गन्धवान् (गंधुदधुआभिरामे) उद्धृतः-प्रकटीभूतः एवंविधो यो गन्धस्तेनाभिरामे, पुनः किंवि०?