________________
संहरणद| शायां ज्ञानत्रयं सू.
३०
%ARCARRANA
अकुंडग्गामे नयरे ) क्षत्रियकुण्डग्रामे नगरे (नायाणं खत्तिआणं) ज्ञातजातीयानां क्षत्रियाणां (सिद्धत्यस्स. खत्तियस्स) सिद्धार्थस्य क्षत्रियस्य ( कासवगुत्तस्स) काश्यपगोत्रस्य (भारिआए तिसलाए खत्तिआणीए) भार्यायास्त्रिशलायाः क्षत्रियाण्याः (वासिट्टसगुत्ताए) बाशिष्टगोत्रायाः (पुवावरत्तकालसमयंसि) मध्यरात्रकालसमये (हत्थुत्तराहिं नक्खत्तेणं) उत्तराफाल्गुनीनक्षत्रे (जोगमुबागएणं) चन्द्रेण सम्बन्धं उपागते (अब्बावाह)पीडारहितं यथा स्यात्तथा(अव्वाबाहेणं दिव्वेणं पहावेणं)अव्यायाधेन दिव्यप्रभावेण(कुच्छसि गम्भताए साहरिए)कुक्षिविषये गर्भतया संहृतः, मुक्त इत्यर्थः।।अत्र कवेरुत्प्रेक्षा-'सिद्धार्थपार्थिवकुलाप्तगृहप्रवेशे, मौहतमागमयमान इव क्षण यारात्रिंदिवान्युषितवान् भगवान् ब्यशीति, विप्रालये स चरमो जिनराद पुनातु॥(२९)
(तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये च.( समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (तिन्नाणोवगए आवि हुत्था) त्रिभिआनः उपगतः-सहितः अभवत् , (माहरिज्जिस्सामित्ति जाणइ ) संहरिष्यमाणः-मां इतः संहरिष्यति इति जानाति. (साहरिजमाणे नो जाणइ ) संहियमाणः संहरणसमये न जानाति, (साहरिएमित्ति जाणइ) संहृतोऽस्मीति च जानाति, ननु संहियमाणो न जानातीति कथं युक्तं?, संहरणस्य असङ्घचसामयिकत्वात् भगवतश्च संहरणकर्तृदेवापेक्षया विशिष्टज्ञानवत्वात् , उच्यते, इदं वाक्यं संहरणस्य कौशलज्ञापकं, तथा तेन संहरणं कृतं भगवतः यथा भगवता ज्ञातमपि अज्ञातमिवाभूत् | पीडाऽभावात् , यथा कश्चिद्वदति-त्वया मम पादात्तथा कण्टक उद्धृतो यथा मया ज्ञात एव नेति, सौख्यातिशय