SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोव्या०२ ॥३५॥ संहरणकालादि सू. २९ ॥३५॥ (तेणं कालेणं) तस्मिन् काले (तेणं समएणं ) तस्मिन् समये (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (जे से वासाणं तचे मासे ) योऽसौ वर्षाणां-कर्षाकालसम्बन्धी तृतीयो मासः (पंचमे पक्खे) पञ्चमः पक्षः, कोऽसौ ? इत्याह-(आसोअबहुले) आश्विनमासस्य कृष्णपक्षः (तस्स णं आसोअबहुलस्स) आश्विनकृष्णपक्षस्य (तेरसीपक्खेणं) त्रयोदश्याः पक्षः, पश्चाधरात्रिरित्यर्थः, तस्यां (बासीइराइंदिएहिं विइक्कतेहिं) द्वयशीतो अहोरात्रेषु अतिक्रान्तेषु ( तेसीइमस्स राइंदिअस्स)व्यशीतितमस्याहोरात्रस्य (अंतरा वहमाणस्स) अन्तरकाले-रात्रिलक्षणे काले वर्तमाने (हिआणुकंपएणं) हितेन-स्वस्य इन्द्रस्य च हितकारिणा तथा अनुकम्पकेन-भगवतो भक्तेन, अनुकम्पायाश्च भक्तिवाचित्वं 'आयरिअअणुकंपाए गच्छो अणुकंपिओ महाभागों इति वचनात् , (हरिणेगमेसिणा देवेणं ) ईदृशेन हरिणगमेषिनामकेन देवेन (सक्वयणसंदितुणं) शक्रवचनसंदिष्टेन-प्रेषितेन (माहणकुंडग्गामाओ) ब्राह्मणकुण्डग्रामात् (नयराओ) नगरात् ( उसभदत्तस्स माहणस्स) ऋषभदत्तस्य ब्राह्मणस्य (कोडालसगुत्तस्स) कोडालसगोत्रस्य (भारिआए. देवाणंदाए माहणीए) भार्याया देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए) जालन्धरगोत्रायाः (कुच्छीओ) कुक्षितः ( खत्ति , मासपक्षादिदर्शनेन कल्याणकताभिसन्धिः सत्यसन्धाशून्यानामेव, कुत्रापि तादृशस्तल्लक्षणस्थाश्रुतेः, किंच-मेधकुमारादीनां दीक्षादावपि तच्छुतेः, | इन्द्रादिमहोत्सवस्तु नात्र गन्धतोऽपि २ हितानुकम्पकदेवकृतत्वेन न कल्याणकताया लेशोऽपि, कल्याणकस्स भक्तिमात्रविहितत्वात् ३ आचार्यभक्त्या महाभागो गच्छो भक्तः (ओघ० १२७ भाष्यं)
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy