________________
कल्प.सुबोव्या०२
देवस्याग★ मनादिम्.
| ॥३३॥
ASAALAACASSES
(परिसाडित्ता) परित्यज्य (अहासहुमे) यथासूक्ष्मान्-अत्यन्तं सारान् इत्यर्थः, तान् (पुग्गले) पुद्गलान् (परिआएइ ) पर्यादत्ते-गृह्णातीत्यर्थः ॥ ( २६ ॥ (परियाइत्ता) पर्यादाय-गृहीत्वा (दुचंपि) द्वितीयवारं अपि (वेउब्वियसमुग्घाएणं) वैक्रियसमुद्घातेन (ममोहणइ) समुद्धन्ति-पूर्ववत् प्रयत्नविशेषं करोति, (समोहणित्ता) प्रयत्नविशेष कृत्वा (उत्तरवेउन्विअं रूवं ) उत्तरवैक्रियं-भवधारणीयापेक्षया अन्यत् इत्यर्थः, ईदृशं रूपं (बिउब्वइ) विकुर्वति-करोति (विउवित्ता) तथा कृत्वा (ताए) तया (उनिहाए) उत्कृष्टया-अन्येषां गतिभ्यो मनोहरया (तुरिआए) त्वरितया-चित्तौत्सुक्यवत्या (चवलाए) कायचापल्ययुक्तया (चंडाए) चण्डया-अत्यन्ततीव्रया (जयणाए) शेषगतिजयनशीलया (उधूआए) उधूतया-प्रचण्डपवनोद्धृतधूमादेरिव (सिग्घाए) अत एव शीघया, छेआएत्ति कुत्रचित् पाठः, तत्र छेकया-विघ्नपरिहारदक्षया, (दिव्वाए) देवयोग्यया, ईदृश्या (देवगईए) देवगत्या (वीइवयमाणे वीइवयमाणे) अतिगच्छन् २-अधस्तादुत्तरन् . २ (तिरिअमसंखिजाणं दीवसमुदाणं) तिर्यग् असंख्येयानां द्वीपसमुद्राणां ( मज्झमज्झेणं) मध्यमध्येन-मध्यभागेन (जेणेव जंबुद्दीवे दीवे ) यत्रैव जम्बूद्वीपो द्वीपः (भारहे वासे) भरतक्षेत्रं (जेणेव माहणकुंडग्गामे नयरे) यत्रैव ब्राह्मणकुण्डग्रामनगरं (जेणेव उसभदत्तस्स माहणस्स गिहे ) यत्रैव ऋषभदत्तस्य ब्राह्मणस्य गृहं (जेणेव देवाणंदा माहणी) यत्रैव देवानन्दा ब्राह्मणी (तेणेव
वक्रियनिर्माणयोग्यान् । २ चैक्रियरूपनिर्माणाय ।