SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ( एवं खलु अरहंता वा) अनेन प्रकारेण निश्चयेन अर्हन्तो वा (चकवट्टी वा) चक्रवर्तिनो वा (बलदेवा बा) बलदेवा वा (वासुदेवा वा) वासुदेवा वा (उग्गकुलेसु वा) श्रीऋषभेण आरक्षकतया स्थापिताः उग्राः तेषां कुलेषु वा (भोगकुले वा) गुरुतया स्थापिताः भोगाः तेषां कुलेषु वा (राइष्णकुलेसु वा) मित्रस्थाने स्थापिताः राजन्यास्तेषां कुलेषु वा (खत्तियकुलेसु वा प्रजालोकतया स्थापिताः क्षत्रियास्तेषां कुलेषु वा (हरिवंसकुलेसु वा) पूर्ववैरिसुरानीतहरिवर्षक्षेत्रयुगलस्य वंशो हरिवंशस्तस्य क्रुलेषु वा ( अण्णयरेसु वा ) अन्यतरेषु वा (तहप्पगारेसु ) तथाप्रकारेषु ( विसुद्धजाइकुलवंसेसु ) विशुद्धे जातिकुले यत्र ईदृशेषु वंशेषु मातृपक्षो जातिः पितृपक्षः कुलं ( आयाइंस वा ) आगता वा ( आयाइंति वा ) आगच्छन्ति वा ( आयाइस्संति वा ) आगमिष्यन्ति वा, ॥ (२१) ॥ तर्हि भगवान् कथमुत्पन्न : इत्याह - ( अस्थि पुण एसेऽवि भावे ) अस्ति पुनः एषोऽपि भवितव्यतानामपदार्थ: ( लोगच्छेरय भूए) लोके आश्चर्यभूतः ( अनंताहिं उस्सप्पिणीओसप्पिणीहिं) अनन्तासु उत्स पिण्यवसर्पिणीषु (विक्कताहि ) व्यतिक्रान्तासु सतीषु (समुप्पज्जइ ) ईदृशः कश्विद्भावः समुत्पद्यते (नामगुत्तस्स वा ) नान्ना कृत्वा गोत्रस्य, अर्थात् नीचैर्गोत्रनामकस्य, वेति पक्षान्तरे (कम्मस्स ) कर्मणः, किं विशिटस्य (अक्खीणस्स ) स्थिते: अक्षयेण अक्षीणस्य, पुनः किंवि० १ ( अवेइअस्स ) रसस्यापरिभोगेन अवेदितस्य, पुनः किंवि० ? ( अणिज्जिण्णस्स ) अत एव अनिर्जीर्णस्य - आत्मप्रदेशेभ्यः अपृथग्भूतस्य ( उदरणं ) उदयेन कृत्वा (जन्नं अरहंता वा ) यत् नीचैगोत्रोदयेन कृत्वा अर्हन्तो वा (चक्कवही वा ) चक्रवर्तिनो वा जिनाद्यागमनआश्चर्य जन्मनोऽ भावः मृ. २१-२२
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy