________________
पाल्य चतुर्विंशतितमे भवे महाशुक्र देवः, ततश्च्युतः पञ्चविंशे भवे इहैव भरतक्षेत्रे छत्रिकायां नगर्यां जितशत्रुनृपतेर्भद्रादेव्याः कुक्षौ पञ्चविंशतिवर्षलक्षायुनन्दनो नाम पुत्रः, स च पोटिलाचार्यपार्श्वे चारित्रं गृहीत्वा यावज्जीवं सक्षपणैर्विंशतिस्थानकाराधेन च तीर्थकरनामकर्म निकाच्य वर्षलक्षं चारित्रपर्यायं परिपाल्य मासिकया संलेखनया मृत्वा षडूविंशतितमे भवे प्राणतकल्पे पुष्पोत्तरावतंसकविमाने विंशतिसागरोपमस्थि|तिको देवो जातः, ततश्च्युत्वा तेन मरीचिभवबद्धेन नीचैर्गोत्रकर्मणा भुक्तशेषेण सप्तविंशे भवे ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य देवानन्दायाःब्राह्मण्याः कुक्षी उत्पन्नः, ततः शक्र एवं चिन्तयति
(जन्नं अरहंता वा) यत् एवं नीचैर्गोत्रोदयेन अर्हन्तो वा (चक्कवट्टी वा) चक्रवर्तिनो वा (बलदेवा वा) बलदेवा वा (वासुदेवा वा) वासुदेवा वा ( अन्नकुले सु वा ) अन्त्याः -शुद्रास्तेषां कुलेषु वा ( पन्तकुलेसु वा) मान्ता-अधमाचाराः तेषां कुलेषु वा (तुच्छकुलेसु वा) तुच्छा-अल्पकुटुम्बास्तेषां कुलेषु वा ( दरिद्दकुलेसु वा) दरिद्रा-निर्धनास्तेषां कुलेषु वा (किविणकुलेसु वा) कृपणा:-अदातारस्तेषां कुलेषु वा (भिकखागकुलेसु वा) भिक्षाकाः-चारणादयस्तेषां कुलेषु वा (माहणकुलेसु वा) ब्राह्मणानां कुलेषु वा (आयाइंसु वा) आगता अतीतकाले (आयाइंति वा) आगच्छन्ति वर्तमानकाले (आयाइस्संति वा ) आगमिष्यन्ति अनागतकाले (कुच्छिसि) कुक्षौ (गन्भत्ताए) गर्भतया (वक्कमिंसु वा) उत्पन्ना वा (वक्कमति वा) उत्पद्यन्ते वा ( वव,मिस्संति वा) उत्पत्स्यन्ते वा, परं (नो चेव ण) नैव (जोणीजम्मणनिकखमणणं) योन्या यत्