________________
प्रेसङ्गेन, ततोऽनालोचिततत्कर्मा चतुरशीतिलक्षपूर्णणि आयुः परिपाल्य मृत्वा चतुर्थे भवे ब्रह्मलोके दशसागरस्थितिः सुरः सञ्जातः, ततश्च्युतः पञ्चमे भवे कोल्लाकसन्निवेशे अशीतिलक्षपूर्वायुर्विप्री भूत्वा विषयासक्तो निःशूकः प्रान्ते त्रिदण्डीभूत्वा बहुकालं संसारे भ्रान्तः, ते हि मवाः स्थूलभवमध्ये न गण्यन्ते, ततः षष्ठे भवे स्थूणायां नगयाँ द्वासप्ततिलक्षपूर्वायुः पुष्पनामा द्विजस्त्रिदण्डीभूत्वा मृतः, सप्तमे भवे सौधर्मे कल्पे मध्यस्थितिः सूरोऽभूत्। ततश्च्युतोऽष्टमे भवे चैत्यसन्निवेशे षष्टिलक्षपूर्वायुः अग्निद्योतो नाम विप्रस्त्रिदण्डीभूत्वा मृतो, नवमे भवे ईशानदेवलोके मध्यस्थितिकः सुरः, ततश्च्युतो दशमे भवे मन्दरसन्निवेशे षट्पश्चाशल्लक्षपूर्वायुरग्निभूतिनामा ब्राह्मणः, अन्ते त्रिदण्डीभूत्वा एकादशे भवे तृतीयकल्पे मध्यस्थितिकः सुरः, ततश्च्युतो द्वादशे भवे श्वेताम्म्यां नगर्या चतुश्चत्वारिंशल्लक्षपूर्वायुर्भारद्वाजनामा विप्रस्त्रिदण्डीभूत्वा मृत्वा अयोदशे भवे माहेन्द्रकल्पे मध्यस्थितिः सुरः, ततश्च्युतः कियत्काल संसारे भ्रान्त्वा चतुर्दशे भवे राजगृहे चतुस्लिं.
शल्लक्षपूर्वायुः स्थावरो नाम विप्रस्त्रिदण्डीभूत्वा मृता, पञ्चदशे भवे ब्रह्मलोके मध्यस्थितिको देवः, षोडशे भवे | कोटिवर्षायुर्विश्वभूतिनामा युवराजपुत्रः, सम्भूतिमुनिपादान्ते चारित्रं गृहीत्वा वर्षसहस्रं दुस्तपं तपस्तप्यमानो मासोपवासपारणायां मथुरायां गोचरचर्यार्थ गतः, तत्र एकया घेन्या तपाकृशत्वावि पातितः, तद् दृष्ट्वा च
दुर्भाषितेनैकेनेत्याद्युपदेशमालायां, कविलेल्यादेवृत्तौ निरुपचरितो जैनधर्म अन्न तु सोपचरित इति मलयगिरिपादाः, जमालेमतान्तरेणानम्ता | भवा उक्ताः स्वयं लोकप्रकाशे.