SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ AN कल्प. सुबोव्या०२ ॥२७॥ श्रीवीरस्य २७ भवाः ॥२७॥ उक्त-कविला इत्यापि अनेन उत्सूत्रवचन उत्सूत्रमिश्रितमिति कीया एवं निर्ग्रन्धार, ततो यदि नीरोगो भवामि तदैक वैयावृत्यकरं शिष्यं करोमीति, क्रमेण च नीरोगो जाता, एकदा कपिलनामा राजपुत्रो देशनां निशम्य प्रतिबुद्धो मरीचिना प्रोक्तो-भो कपिल ! याहि साधुसमीपे चारित्रं गृहाण, तदा कपिलेन प्रोक्तं-स्वामिन् ! भवद्दर्शने एव ब्रतं ग्रहीष्यामि, तदा मरीचिरुवाच-भो कपिल ! श्रमणास्त्रिद विरताः अहं तु त्रिदण्डवानित्यादि सर्व स्वरूपं कथितं, तथापि स बहुलकर्मा चारिअपराङ्मुखः प्रोवाच-किं भवदर्शने सर्वथा धर्मो नास्ति, तदा मरीचिना एष मम योग्यः शिष्य इति विचिन्त्य उक्तं-'कविला इत्थंपि इहयंपि' कपिल ! जैनमार्गेऽपि धर्मोऽस्ति मम मार्गेऽपि वियते, तत् श्रुत्वा च कपिलस्तत्पार्श्वे प्रव्रजितः, मरीचिरपि अनेन उत्सूत्रवचनेन कोटाकोटिसागरप्रमाणे संसारं उपार्जयामास, यत्तु किरणावलीकारेण प्रोक्तं 'कविला इत्थंपि इहयपीति' वचनं उत्सूत्रमिश्रितमिति, तदुत्सूत्रभाषिणां नियमादनन्तः संसार इति स्वमतस्थापनरसिकतयेति ज्ञेयं, इदं हि तन्मतं-उत्सूत्रभाषिणस्तावनियमादनन्तः एव संसारः स्यात् , यदि च इदं मरीचिवाचनमुत्सूत्रमित्युच्यते तदा अस्यापि अनन्तः संसारः प्रसज्यते, न चासौ सम्पनः, तदिदं उत्सूत्रमिश्रितमिति, तच्चायुक्तं, उत्सूत्रभाषिणां अनन्त एव संसार इति नियमाभावात् , श्रीभ|गवत्यादिबहुग्रन्थानुसारेण उत्सूत्रभाषिशिरोमणेर्जमालिनिहवस्यापि परिमितभवत्वदर्शनात्, न चोत्सूमिश्रत्वकथनेपि अस्य मरीचिवचनस्य उत्सूत्रत्वं अपगच्छति, विषमिश्रितान्नस्यापि विषत्वमेवेत्यलं RSAHARASHTRA
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy