SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ | परिव्राजकधर्म विकल्पितवान् , ततस्तं विरूपवेषं विलोक्य सर्वे जना धर्म पृच्छन्ति, तत्पुरश्च साधुधर्म प्ररूप| यति, देशनाशक्त्या च अनेकान् राजपुत्रादीन् प्रतियोध्य भगवतः शिष्यतया ददाति, भगवता सहैव च | विहरति, एकदा भगवान् अयोध्यायां समवसृतः, तत्र वन्दनार्थ आगतेन भरतेन पृष्टं-स्वामिन् ! अस्यां पर्षदि | कोपि भरतक्षेत्रेऽस्यां चतुर्विंशतिकायां भाषिजिनोऽस्ति?, भगवानुवाच-भरत ! तव पुत्रोऽयं मरीचिनामा अस्यां अवसर्पिण्यां वीरनामा चतुर्विंशस्तीर्थकृत् १ विदेहे मूकाराजधान्यां प्रियमित्रनामा चक्री २ अत्रैव भरते प्रथमो वासुदेवश्च ३ भविष्यतीति श्रुत्वा हर्षितो भरतो गत्वा त्रिः प्रदक्षिणीकृत्य मरीचिं वन्दित्वा अवदत्-भो मरीचे ! यावन्तो लाभास्ते त्वयैव लब्धाः, यतस्त्वं तीर्थकरो वासुदेवश्चक्री च भविष्यसि, अहं च तव पारिवाज्यं न वन्दे, किंतु त्वं चरमतीर्थकरो भविष्यसीति वन्दे इति पुनः पुनः स्तुत्वा भरतः स्वस्थानं गतः, मरीचिरपि तत् श्रुत्वा हर्षोद्रेकात्रिपदी आस्फोव्य नृत्यन्निदं अवोचत्-'प्रथमो वासुदेवोऽहं, मूकायां चक्रवर्त्यहम् । चरमस्तीर्थराजोऽहं, ममाहो उत्तम कुलम् ॥१॥ आद्योऽहं वासुदेवानां, पिता मे चक्रवतिनाम् । पितामहो जिनेन्द्राणां, ममाहो उत्तमं कुलम् ॥२॥ इत्थं च मदकरणेन नीचर्गोत्रं बद्धवान् , यतः--'जाति १ लाभ २ कुलै ३ श्वर्य ४ बल ५ रूप ६ तपः ७ श्रुतैः ८ । कुर्वन् मदं पुनस्तानि, हीनानि लभते जनः॥३॥ ततो भगवति निवृते प्राग्वजनान् प्रतिबोध्य साधूनां शिष्यान् कुर्वन् तैः सह विहरति, एकदा च ग्लानीभूतस्य तस्य न कोऽपि वैयावृत्यं करोति, तदा स चिन्तितवान्-अहो एते बहुपरिचिता अपि पर
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy