SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ C - श्रीवीरस्य २७ भवाः ॥२६॥ 16 तच नीचैगोत्रं भगवता स्थूलसप्तविंशतिभवापेक्षया तृतीयभवे बद्धं, तथाहि-प्रथमभवे पश्चिममहाविदेहे कल्प. सुबो नयसारनामा ग्रामपतिः, स चैकदा काष्ठनिमित्तं वनं गतः, तत्र मध्याह्न भोजनसमये सार्थभ्रष्टान् साधून् दृष्ट्वाः व्या०२ हृष्टश्चिन्तितवान्-अहो मे भाग्य! यदस्मिन् समये अतिथिसमागमः, ततः परमप्रमोदेन साधवोऽशनपाना॥२६॥ 1| दिभिः प्रतिलम्भिताः, पश्चाद्भोजनानन्तरं साधून नत्वा उवाच-चलन्तु महाभागा! मार्ग दर्शयामि, ततो. मार्गे गच्छद्भिः साधुभिर्योग्योऽयमिति धर्मोपदेशेन सम्यक्त्वं प्रापितः, अन्ते च नमस्कारस्मरणपूर्व मृत्वा द्वितायभवे सौधर्मदेवलोके पल्योपमायुर्देवो जाता, ततश्च्युत्वा तृतीयभवे मरीचिनामा भरतचक्रवर्तिपुत्रो जातः, स च प्राप्तवैराग्यः श्रीऋषभदेवपार्श्वे प्रव्रजितः स्थविरपाचे एकादशाङ्गीं अधीतश्च, एकदाच ग्रीष्मकाले तापादिपीडितश्चिन्तितवान्-अतिदुष्करोऽयं संयमभारो मया निर्वोढुं न शक्यते गृहे गमनं च सर्वथा अनुचितं इति ध्यात्वाभिनवं वेषं रचितवान् , तथाहि-श्रमणास्त्रिदण्डविरताः अहं तु न तथा इति मम त्रिदण्डं चिह्नमस्तु, श्रमणा द्रव्यभावाभ्यां मुण्डाः अहं तु न तथेति मम शिरसि चुडा क्षुरमुण्डनं चास्तु, तथा श्रमणानां सर्वेभ्यः प्राणातिपातादिभ्यो विरतिर्मम तु स्थूलेभ्यः सास्तु, शीलसुगन्धाः साधवो नाहं तथेति मम चन्दनादिविलेपनमस्तु, तथा अपगतमोहाः श्रमणाः अहं तु मोहाच्छादित इति मे छन्त्रक अस्तु, श्रमणा अनुपानच्चरणाः मम तु चरणयोरुपानद् अस्तु, श्रमणा. निष्कषायाः अहं तु सकषाय इति इति मम काषाय्यं वस्त्रं अस्तु, श्रमणाः लानाद्विरताः मम तु परिमितजलेन लानं पानं चास्तु एवं स्ववुझ्या NA-%*** CARRRRRA * * 4-%25
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy