SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ RSONASANSAACHARSAXSAX |एकस्मिन् समये उत्कृष्टावगाहनावन्तः अष्टाधिकशतमिता न सिध्यन्ति, ते च अस्यां अवसर्पिण्यां सिद्धाः यत:-वृषभो१वृषभस्य सुता९९ भरतेन विवर्जिताच नवनवतिः। अष्टौ भरतस्य सुताः १०८ शिवं गता एकसमयेन ॥१॥ (९) 'असंजयाणं ति असयंता:-असंयमवन्तः आरम्भपरिग्रहप्रसक्तास्तेषां पूजा, संयता एव सर्वदा पूज्यन्ते, अस्यां अवसर्पिण्यां तु नवमदशमजिनयोरन्तरे असंयतानां अपि ब्राह्मणादीनां पूजा प्रवृत्तति आश्चर्य (१६) . इमानि दशापि आश्चर्याणि अनन्तकालातिक्रमे अस्यां अवसर्पिण्यां जातानि, एवं च कालसाम्यात् शेषेष्वपि चतुर्यु भरतेषु पञ्चसु ऐरवतेषु च प्रकारान्तरेण दश आश्चर्याणि ज्ञेयानि । अथ दशानां आश्चर्याणां तीर्थव्यक्तिः-अष्टाधिकशतसिद्धिगमनं श्रीऋषभतीर्थे १ हरिबंशोत्पत्तिः शीतलतीर्थे २ अपरकङ्कागमनं श्रीनेमितीर्थे ३ स्त्रीतीर्थकरी मल्लितीर्थे ४ असंतपूजा सुविधिजिनतीर्थे ५, शेषाणि च उपसर्ग १ गर्भापहार२ अभाविता पर्षत् ३ चमरोत्पात ४ चन्द्रसूर्यावतरणलक्षणानि ५ पश्च आश्चर्याणि श्रीवीरतीर्थे, एकं तावत् आश्चर्य इदं, अपरञ्च-(नामगुत्तस्स वा कम्नस्स) माना गोत्रं इति प्रसिद्धं यत्कर्म गोत्राभिधानं कर्मत्यर्थः तस्य, किंविशिष्टस्य ! (अक्खीणस्स) अक्षीणस्य, स्थितेः अक्षयेण (अवेइअस्स) अवेदितस्य रसस्य अपरिभोगेन (अणिजिण्णस्स) अनिर्जीर्णस्य, जीवप्रदेशेभ्योऽारिशस्तिस्य, ईदृशस्य गोत्रस्य-नीचैर्गोत्रस्य (उदएण) उदयेन भगवान् ब्राह्मणीकुक्षौ उत्पन्न इति योगः।
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy