________________
कल्प. सुबो व्या०२
आश्चर्यद
शकम् ॥२५॥
॥२५॥
Dodanno
| 'हरिवंसकुलुप्पत्ति'त्ति, सा चैवं-कुत्रचिन्नगरे केनचिद्राज्ञा वीरकशालापतिभार्या बनमालानाम्नी सुरूपेति स्वान्तापुरे क्षिप्ता, स च शालापतिस्तस्या वियोगेन विकलो जातो, यं कश्चन पश्यति तं वनमाला वनमालेति जल्पयति, एवं च कौतुकाक्षिप्तैरमेकैलोकैः परिवृतः पुरे भ्रमन् वनमालया समं क्रीडता राज्ञा दृष्टः, ततश्चा| स्माभिरनुचितं कृतं इति चिन्तयन्तौ तौ दम्पती तत्क्षणाद्विद्युत्पातेन मृतौ हरिवर्षक्षेत्रे युगलित्वेन समुत्पन्नौ, शालापतिश्च तो मृतौ श्रुत्वा आः पापिनोः पापं लग्नं इति सावधानोऽभूत्, ततोऽसौ वैराग्यात्तपस्तप्त्व व्यन्तरोऽभूत् , विभङ्गज्ञानेन च तौ दृष्ट्वा चिन्तितवान्-अहो इमौ मद्वैरिणौ युगलसुखं अनुभूय देवौ भविप्यतस्तत इमो दुर्गतौ पातयामीति विचिन्त्य स्वशक्त्या संक्षिप्तदेहो तो इहानीतवान् , आनीय च राज्य दत्त्वा सप्त व्यसनानि शिक्षितौ, ततस्तौ तथाभूतौ नरकं गतो, अथ तस्य वंशो हरिवंशः, अत्र युगलिकस्यात्रानयनं शरीरायुःसंक्षेपणं नरकगमनं चेति सर्व आश्चर्य (७)'चमरुप्पाओ'त्ति चमरस्य-असुरकुमारराजस्य उत्पातः, स चैवं-पूरणमामा ऋषिस्तपस्तप्त्वा चमरेन्द्रतया उत्पन्नः स च नवोत्पन्नः शिरस्थं सौधर्मेन्द्र विलोक्य कोपाक्रान्तः परिघं गृहीत्वा श्रीवीरं शरणीकृत्य मौधर्मेन्द्रात्मरक्षकांस्त्रासयन् सौधर्मावतंसकविमानवेदिकायां पादं मुक्त्वा शक्रं आक्रोशयामास, ततो रुष्टेन शक्रेण जाज्वल्यमानं वजं तं प्रति | मुक्तं, ततोऽसौ भीतो भगवत्पादयो नः, तो ज्ञातव्यतिकरेण इन्द्रेण महसागत्य चतुरगुलाप्राप्तं वज्र | गृहीतं, भगवत्प्रसादान्मुक्तोऽसीत्युक्त्वा चमरो मुक्तः, इयं चमरस्योर्ध्वगमनं आश्चर्य (८)'अट्ठसय'त्ति