________________
+%
CCC A.S4-061-5464G
तीर्थकरा हि भगवन्तः पुरुषोत्तमा एव भवंति, अत्रीवसर्पिण्यां च मिथिलापतिकुम्भराजस्य पुत्री मल्लिनान्नी एकोनविंशतितमजिनत्वेनोत्पन्ना तीर्थ प्रवर्तितवतीति आश्चर्य (३) 'अभाविया परिस'त्ति अभाविता पर्षद्, भगवतो हि देशना कदापि निष्फला न भवति, अत्र च समुत्पन्नकेवलेन श्रीवर्धमानस्वामिना प्रथमममवसरण एव देशना दत्ता, न च तया कस्यापि विरतिपरिणामो जात. इत्याश्चर्य (४) 'कण्हस्स'त्ति कृष्णस्यनवमवासुदेवस्य द्रौपदीनिमित्तं अपरकङ्कागमनं । आश्चर्य, तच्चैवं-पुरा किल पाण्डवभार्यया द्रौपद्या असंयतत्वान्नारदस्य अभ्युत्थानादि न कृतं, तेन च रुष्टेन तस्याः कष्टे पातनार्थ धातकीखण्डभरते अपरककाराजधानीप्रभोः पद्मोत्तरस्य स्त्रीलुब्धस्य पुरतो रूपवर्णनं कृतं, तेनापि स्वमित्रदेवद्वारा द्रौपदी स्वगृहं आनायिता, इतश्च पाण्डवमात्रा कुन्त्या विज्ञपितेन कृष्णेन द्रौपदीगवेषणव्यग्रेण नारदमुखादेव स समाचारो लब्धः, ततः सोऽपि आराधितसुस्थितदेवताप्रदत्तमार्गो द्विलक्षयोजनायाम लवणसमुद्रं अतिक्रम्य अपरकङ्कां गतः, तत्र च तर्जितपाण्डवं पद्मोत्तरं नरसिंहरूपकरणेन विजित्य द्रौपदीवचसा जीवन्तं मुक्त्वा च द्रौपद्या सह पश्चाद्वलितः, वलमानश्च शङ्खं आपूरितवान् , तच्छब्दं श्रुत्वा च तत्र विहरमानमुनिसुव्रतजिनवचनेन कृष्णं आगतं ज्ञात्वा मिलनोत्सुकः कपिलवासुदेवोऽपि जलधितटमुपेत्य शङ्खं आपूरितवान् , ततो मिथ: शङ्कशब्दौ मिलितो, ततोऽस्यां अवसर्पिण्यां कृष्णस्य अपरकङ्कागमनं आश्चर्य (५) 'अवयरणं चंदसूराणं ति। यत् कौशाम्ब्यां भगवतः श्रीवर्धमानस्वामिनो बन्दनार्थ मूलविमानेन सूर्याचन्द्रमसौ उत्तीर्णी तदाश्चर्य (६)
AAAR