________________
कल्प. सुबो
व्या० २
॥२४॥
संभाषणं कर्त्तव्यं, इतस्ततः सर्वेऽपसरन्तु ततस्तैस्तथा कृते गोशाल आगत्य भगवन्तं अवादीत्-भो काश्यप ! किमेवं वदसि यदयं गोशालो मङ्कलिपुत्र इत्यादि, स तब शिष्यस्तु मृतः, अहं तु अन्य एव परीषहसहनसमर्थं तच्छरीरं ज्ञात्वा अधिष्ठाय स्थितोऽस्मि, एवं च भगवतिरस्कारं असहमानौ सुनक्षत्रसर्वानुभूती अन गारौ मध्ये उत्तरं कुर्बाणौ तेन तेजोलेश्यया दग्धौ स्वर्गं गतौ, ततो भगवता उक्तं-भो गोशाल ! स एव त्वं, नान्यो, मुधा किं आत्मानं गोपायसि ? न ह्येवं आत्मा गोपयितुं शक्यः, यथा कश्चित् चौर आरक्ष के ईष्टोऽङ्गुल्या तृणेन वा आत्मानमाच्छादयति स किं आच्छादितो भवति ?, एवं च प्रभुणा यथास्थितेऽभिहिते स दुरात्मा भगवदुपरि तेजोलेश्यां मुमोच सा च भगवन्तं त्रिः प्रदक्षिणीकृत्य गोशालकशरीरं प्रविष्टा, तया च दग्धशरीरो विविधां वेदनां अनुभूय सप्तमरात्रौ मृतः, भगवानपि तस्यास्तापेन षण्मासीं यावल्लोहितवचैवाधां अनुभूतवान् तदेवं नामस्मरणशमितसकलदुःखस्य भगवतोऽप्येवं यदुपसर्गस्तदाश्चर्यं १ 'गम्भहरणं' ति गर्भस्य हरणं-- उदरान्तरमोचनं तत् कस्यापि जिनस्य न भूतपूर्व श्रीवीरस्य जातं इत्याश्चर्य २ ' इत्थीतित्थ 'न्ति
"
१ कर्मोदयमात्रजन्येयं, न गोशालक तेजोलेश्योद्भवेति तु सूत्रानवबोधत एव 1 २ यथा मल्लीजनस्य स्त्रीत्वेन प्रतिनादि न क्रियते, आश्चर्यरूपत्वात्तस्य तद्वदिदमपि न कल्याणकतामञ्चति, न च स्थानवस्तुप्रभृतिभिः स्पष्टे व्यापके व्याख्याने व्याप्यकल्याणकव्याख्यानस्य ग्रहणं बुद्धिमतामहं स्पष्टं न चोक्तं कल्याणकपरिगणनायां, श्री वीरस्य च्युतिजन्मदीक्षा केवल मोक्षरूपाणं पञ्चकमेव कल्याणानां पञ्चाशके चान्द्रकुलीनाभयदेवसूरिभिरुक्तं
अदा त्पत्तिवि
चारे आश्वदशकं
॥२४॥