________________
गौतम! नायं जिनः, किंतु शरवणग्रामवासी मङ्खलेः सुभद्राभार्यायां गोबहुलब्राह्मणगोशालायां जातत्वात् । गोशालनामा अस्माकं एव शिष्यीभूतोऽस्मत्त एव किञ्चिद् बहुश्रुतीभूतो मुधा स्वं जिन इति ख्यापयति, ततः सर्वतः प्रसिद्ध इमां वाती आकर्ण्य रुष्टो गोशालो गोचरचर्यागतं आनन्दनामानं भगवच्छिष्यं जगाद-भो आनन्द ! एकं दृष्टान्तं शृणु, यथा-केचिद्वणिजो धनोपार्जनाय विविधक्रयाणकपूर्णशकटाः परदेशं गच्छन्तोऽरण्यं प्रविष्टाः, तत्र जलाभावेन तृषाकुला जलं गवेषयन्तः चत्वारि वल्मीकशिखराणि पश्यन्ति स्म, ततस्तैरेकं शिखरं स्फोटितं, तस्माद्विपुलं जलं निर्गतं, तेन जलेन गतपिपासाः पयःपात्राणि पूरितवन्तः, तत | एकेन वृद्धेनोक्त-सिद्धं अस्माकं समीहितं, अथ मा स्फोटयन्तु द्वितीयं शिखरं इति निवारिता अपि | द्वितीयं स्फोटयामासुः, तस्माच सुवर्ण प्राप्तवन्तः, तथैव वृद्धवारिता अपि तृतीयं स्फोटितवन्तः, त. स्माद्रनानि पाप्य तथैव बहुवारिता अपि लोभान्धाश्चतुर्थ अपि स्फोटयन्ति स्म, तस्माच प्रादुर्भूतेन दृष्टिविषसण सर्वेऽपि स्वदृष्टिपातेन पञ्चत्वं प्रापिताः, स हितोपदेशको वणिक तु न्यायित्वात् आसन्नदेवतया स्वस्थ ने मुक्तः, एवं तव धर्माचार्योऽपि एतावत्या स्वसम्पदा असन्तुष्टो यथातथाभाषणेन मां रोषयति, तेनाहं स्वतपस्तेजसा धक्ष्यामि, ततस्त्वं शीघ्र तत्र गत्वा एनं अर्थ तस्मै निवेदय, त्वां च वृद्धवणिजमिव हितोपदेशकत्वात् जीवन्तं रक्षिष्यामीति श्रुत्वा भीतोऽसौ मुनिर्भगवदग्रे सर्व व्यतिकरं कथितवान् , ततो भगवता उक्त-भो आनन्द ! शीघ्रं त्वं गौतमादीन् मुनीन् कथय यत् एष गोशाल आगच्छति, न केनाप्यस्य