SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० २ ॥२३॥ **** त्ति पूर्वभववैरिसुरानीतहरिवर्षक्षेत्रयुगलं तस्य वंशो हरिवंशस्तत्कुलेषु ( अन्नयरेसु वा ) अन्यतरेषु वा (तहपगारे विसुद्धजाइकुलवंसेसु) विशुद्धे जातिकुले यत्र ते तथा एवंविधेषु वंशेषु, तत्र जातिः - मातृपक्षः कुलंपितृपक्षः, ईदृशेषु कुलेषु ( आयाइंसु वा ) आगता अतीतकाले ( आयाइति वा ) आगच्छन्ति वर्त्तमानकाले ( आयाइस्संति वा ) आगमिष्यन्ति अनागतकाले, न तु पूर्वोक्तेषु ॥ ( १७ ) ॥ तर्हि भगवान् कथं उत्पन्न ? इत्याह- ( अत्थि पुण एसेऽवि भावे ) अस्ति पुनः एषोऽपि भावो भवितव्यताख्यः ( लोगच्छेरयभूए) लोके आश्चर्यभूतः (अनंताहिं उस्सप्पिणीओसप्पिणीहिं) अनन्तासु उत्सर्पिण्यवसर्पिणीषु (विइकंताहिं समुप्पज्जइ) व्यतिक्रान्तासु ईदृशः कश्चित्पदार्थ उत्पद्यते, तत्रास्यां अवसर्पिण्यां ईदृशानि दश आश्चर्याणि जातानि यथा उवसग्ग १ गब्भहरणं २ इत्थीतित्थं ३ . अभाविआ परिसा ४ । कण्हस्स अवरकंका ५ अवयरणं चंदसुराणं ६ ॥ १ ॥ हरिवंसकुलुप्पत्ती ७ चमरुप्पाओ ८ अ अट्ठसय सिद्धा ९ । अस्संजयाण पूआ १० दसवि अणतेण कालेणं ॥ २ ॥ व्याख्या- 'उवसग्ग' त्ति उपसर्गा-उपद्रवाः, ते हि श्रीवीरस्वामिनः छद्मस्थावस्थायां अग्रे वक्ष्यमाणा बहवोऽभवन् किञ्च-अस्य भगवतः केवल्यवस्थायां अपि स्वप्रभावप्रशमितसर्वोपद्रवस्यापि स्वशिष्याभासेन गोशालकमात्रेणापि उपद्रवः कृतः, तथाहि एकदा श्रीवीरो विहरन् श्रावस्त्यां समवसृतः, गोशालकोsपि जिनोऽहं इति लोके ख्यापयन् तत्रागतः, ततो द्वौ जिनौ श्रावस्त्यां वर्तेते इति लोके प्रसिद्धिर्जाता, तां श्रुत्वा श्रीगौतमेन भगवान् पृष्टः-स्वामिन्! कोऽसौ द्वितीयो जिन इति स्वं ख्यापयति, श्रीभगवानुवाच दा त्पचिवि चारः सू. १६-१८ ॥२३॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy