________________
॥ अथ द्वितीयं व्याख्यानं प्रारभ्यते ।।
(धम्मवरचाउरंतचक्कवट्टीणं) त्रयः समुद्राश्चतुर्थो हिमवानिति चत्वारोऽन्तास्तेषु प्रभुतया भवाश्चातुरन्ताःचतुरन्तस्वामिनः एवंविधा ये चक्रवर्तिनस्ते चातुरन्तचक्रवर्तिनः धर्मस्य वराः-श्रेष्ठाः चातुरन्तचक्रवर्तिनो धर्मवरचातुरन्तचक्रवर्तिनः, धर्मनायका इत्यर्थः, तेभ्यः (दीवो) समुद्रे मन्जतां द्वीप इव संसारसमुद्रे आधारः, (ताणं) त्राणं-अनर्थप्रतिघातहेतुः, तत एव (सरणं) कर्मोपद्रवेभ्यो भीतानां शरणं (गई ) गम्यते सौस्थ्याय दुस्थैराश्रीयते गतिः (पइट्ठा) भवकूपपतत्प्राणिनां अवलम्बनं, दीवो ताणं इत्यादीनि पदानि प्रथमान्तान्यपि चतुर्थ्यर्थषष्ठयन्ततया व्याख्येयानि (अप्पडिहयवरनाणदंसणधराणं) अप्रतिहते-कटकुट्यादिभिरस्खलिते वरे-प्रधाने ज्ञानदर्शने-केवलज्ञानदर्शने घरन्ति येते तथा तेभ्यः (विअछउमाणं) व्यावृत्तं - गतं छद्म-घातिकर्माणि येभ्यस्ते व्यावृत्तच्छद्मानस्तेभ्यः (जिणाणं) रागद्वेषजेतृभ्यः (जावयाणं) उपदेशदानादिना भव्यसत्वै रागादिजापेकास्तेभ्यः (तिन्नाणं) भवसमुद्रं तीर्णेभ्यः (तारयाण ) सेवकानां तारकेभ्यः (बुद्धाणं) सर्वतत्त्वबुद्धेभ्यः (बोहयाणं) अन्येषां बोधकेभ्यः (मुत्ताणं) मुक्तेभ्यः कर्मपञ्जरात ( मोअगाणं) सेवकानां मोचकेभ्यः ( सब्वन्नूणं) सर्वज्ञेभ्यः (सव्वदरिसीणं) सर्वदर्शिभ्यः (सिव) निरुपद्रवं ( अयलं)