________________
यास्यामीति प्रभाते प्रभुपार्श्वमागतः, प्रभुणापि मधुरवचनेन आभाषितः-वत्स! त्वया निशि एवं दुर्व्यानं कृत, परं अविचारितं एतत् , नरकादिदुःखाग्रे कियदेतद् दुखं ?, तान्यपि दुःखानि सागरोपमाणि अनेकानि यावत् प्राणिना बहुशः सोढानि, किश्च-वरमग्गिम्मि पवेसो वरं विसद्धेण कम्नुणा मरणं । मा गहियन्वयभङ्गो मा जीअं खलिअसीलस्स ॥१॥ तथा इदं चारित्रादिकष्टानुष्टानं महते फलाय भवति, यथा त्वयैव पूर्वभवे अनुभूतं धर्मार्थ कष्टं एतावत्फल पापकं अभवत्, शृणु ततः पूर्वभवान्, यथा इतस्तृतीये भवे वैताख्यभूमौ षड्दन्तः शुभ्रो हस्तिनीसहस्रभर्ता सुमेरुपभनामा त्वं गजराजोऽभूः, अन्यदा दावानलागीतः पलायमान स्तृषितः पचहल एक सरप्रामः तत्र चाज्ञातमार्गः पङ्के निमग्नो नीरातीराच्च भ्रष्टः, पूर्ववैरिहस्तिना दन्तैहन्धमानः सप्त दिनानि वेदनां अनुभूय सर्विशं शतं आयुः समाप्य विन्ध्याचले रक्तवर्णश्चतुर्दन्तः सप्तहस्तिनीशतभर्ती हस्ती जातः, क्रमेण च दावानलं दृष्ट्वा जातजातिस्मरणः पूर्वभवं स्मृतवान् , ततो दावानलपराभवरक्षणाय योजनपरिमितं मण्डलं कृतवान् , तत्र वर्षाणां आदी मध्ये अन्ते च यत् किञ्चित् तृणवल्ल्यादि भवति तत् सर्व उन्मूलपति, अन्यदा च दावानलागीताः सर्वे वनजीवास्तन्मण्डलं व्याप्तवन्तः, स्वमपि शीघ्र आगत्य तत्र मण्डले स्थितः, कदाचिद् देहकण्डूयनेच्छया एकं पादं उत्पादितवान् , उत्पाटिते. च तस्मिन् पादे
वरमग्नी प्रवेशो वरं विशुध्धेत कर्मणा मरणं । मा गृहीतवतभंगो मा जीवितं स्खलितशीलस्य ॥१॥ २ अलब्धसम्यक् येनाप्यनुकम्पायै पादस्यामोचनेन ३ शशकरक्षणात् ४ विद्याधरैः तं नाभेदमस्य ॥