________________
कल्प. सुबो
व्या० १
॥२०॥
%%%
७ अपयशोभयं ८ चेति ( चक्खुदयाणं ) चक्षुः समानश्रुतज्ञानदायकेभ्यः ( मग्गदयाणंति ) मार्गस्य - सम्यग्दर्शनादिमोक्षमार्गस्य दायकेभ्यः, यथा केचिज्जनाश्चरैण्टितधना लोचने पट्टबन्धं कृत्वा उन्मार्गे पातिताः स्युस्तेषां कोsपि पढकापनयनेम धनार्पणेन मार्गदर्शनेन च उपकारी भवति एवं, भगवन्तोऽपि her for धर्मघनानां मिथ्यात्वाच्छादितविवेकनयनानां श्रुतज्ञानसद्धर्ममुक्तिमार्गदानेन उपकारिणो भवन्ति, (सरणदयाणंति) भवभीतानां शरणदायकेभ्यः ( जीवदयाणंति ) जीवनं जीवः - सर्वथा मरणाभावस्तदायकेभ्यः क्वचिद् 'बोहिदयाणं'ति पाठस्तत्र बोधि:- सम्यक्त्वं तद्दायकेभ्यः ( धम्मदयाणंति ) धर्मः - चारित्ररूपस्तदायकेभ्यः ( धम्मदेसयाणंति ) धर्मोपदेशदायकेभ्यः, धर्मदेशकत्वं च एतेषां धर्मस्वामित्वे सति, न पुनर्नवदिति दर्शयन्नाह - ( धम्मनायगाणंति ) धर्मनायकेभ्यः ( धम्मसारहीणंति ) धर्मस्य सारथय इव, यथा सारथिः उन्मार्गे गच्छन्तं रथं मार्गे आनयति एवं भगवन्तोऽपि मार्गभ्रष्टं जनं मार्गे आनयंति, अत्र च मेघकुमारदृष्टान्तो यथा - एकदा श्रीवीरस्वामी राजगृहे समवसृतः, तत्र श्रेणिकधारिण्योः सुतो मेवकुमारः प्रतिबुद्धः कथमपि पितरौ आपृच्छयाष्ठौ प्रियाः परित्यज्य दीक्षां गृहीतवान् प्रभुणा च शिक्षार्थं स्थवि - राणां अर्पितः, तत्र अनुक्रमेण संस्तारककरणे द्वारपार्श्वे मेवकुमारस्य संस्तारक आगतः, ततः पाश्रवणद्यार्थ गच्छदागच्छत्साधुपादरजोभिर्भरितः मेघकुमारः समग्रायां रजन्यां क्षणमपि निद्रां न प्राप्तः, चिन्तयामासक में सुखशय्या क चेदं भूलुठनं १, कियत्कालं इदं दुःखं मया सोढव्यं ?, ततः प्रातः प्रभुमापृच्छय गृहं
शक्रस्तव
सू. ५मेघकुमारक ॥२०