________________
भवक्षेत्रे प्ररोहणाभावात् 'अरुहन्ताणं' एति पाठश्च (भगवंताणंति) भगवद्भ्यो-ज्ञानादिमयः (आइगराणंति) आदिकरेभ्यः, आदिकरत्वं स्वस्वतीर्थापेक्षया धर्मस्येति ज्ञेयं (तित्थयराणंतितीर्थकरेभ्यः, तच्च तीर्थ-सङ्घःप्रथम| गणधरो वा तत्स्थापकेभ्यः (सयंसंबुद्धाणंति) स्वयंसम्वुद्धेभ्यो, न तु परोपदेशेन (पुरिसुत्तमाणंति) पुरुषेषु उत्तमेभ्यः, अनन्तगुणनिधानत्वात् (पुरिससीहाणंति) पुरुषसिंहेभ्यः, कर्मवैरिषु निर्दयशूरत्वात् (पुरिसवरपुंडरीआणति) पुरुषवरपुण्डरीकेभ्यः, पुरुषेषु वरं प्रधानं यत्पुण्डरीक-श्वेतपद्मं तनुल्येभ्यः, यथा पुण्डरीकं पङ्के जातं जलैवृद्धं जलपङ्को त्यक्त्वा उपरि तिष्ठति, एवं भगवंतोऽपि कर्मकईमे उत्पन्नाः भोगजलेन वृद्धाः कर्मभोगौ त्यक्त्वा पृथग् तिष्ठन्ति (पुरिसवरगंधहत्थीणं) पुरुषवरगन्धहस्तिभ्यः, यथा गन्धहस्तिगन्धेन अन्ये गजाः पलायन्ते तथा भगवत्प्रभावेण दुर्भिक्षादयोऽपि (लोगुत्तमाणं) लोकेषु-भव्यममूहेषु चतुस्त्रिंशदतिशययुक्तत्वात् उत्तमास्तेभ्यो लोकोत्तमेभ्यः (लोगनाहाणं) लोकानां-भव्यानां नाथेभ्यो-योगक्षेमकारिभ्यः, तत्र योगः-अप्राप्तज्ञानादिमापणं क्षेमं च-प्राप्तज्ञानादिरक्षणं (लोगहिआणं ) लोकानां-सर्वजीवानां हितेभ्योहितकारकेभ्यो, दयाप्ररूपकत्वात् (लोगपईवाणं) लोकप्रदीपेभ्यः, मिथ्यात्वध्वान्तनाशकत्वात् (लोगपज्जोअगराणं) लोकप्रद्योतकरेभ्यः, सूर्यवत् सर्ववस्तुप्रकाशकत्वात् ( अभयदयाण) भयानां अभावः अभयं तदायकेभ्यः, भयानि सप्त, तद्यथा-मनुष्यस्य मनुष्यायं इहलोकभयं १ मनुष्यस्य देवादेर्भयं परलोकभयं २ धनादिग्रहणायं, आदानभयं ३ बाह्यनिमित्तनिरपेक्षं भयं अकस्माद्भयं ४ आजीविकाभयं ६ मरणभयं