SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ +SAMARIKATA मन्त्रिकल्पा वा तेषां (चउण्हं लोगपालाणंति) चतुर्णा लोकपालानां-सोम १ यम २ वरुण ३ कुबेरा ४ भिधानानां (अट्ठण्हं अग्गहिसीणं) अष्टानां अग्रमहिषीणां, ता हि पद्मा १ शिवा २ शची ३ अञ्जु ४ अमला ५अप्सरो ६ नवमिका ७ रोहिणी ८ त्यभिवानाः, किंविशिष्टानां तासां?--(सपरिवाराणंति ) सपरिवाराणां प्रत्येक षोडशसहस्रपरिवाराणां, तथा (तिण्हं परिसाणंति) तिसृणां पर्षदां, बाह्य १ मध्यमा २ भ्यन्तराणां ३ (सत्तण्हं अणिआणंति) सप्तानां अनीकाना-सैन्यानां गन्धर्व १ नाटक २ अश्व ३ गज ४ रथ ५ सुभट ६ वृषभ ७ संज्ञकानां, भवनपत्यादीनां वृषभस्थाने महिषा भवन्तीति ज्ञेयं, तथा ( सत्तण्हं अणिआहिवईणति) सप्तानां सेनापतीनां (चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणंति) चतसृषु दिनु प्रत्येकं चतुरशीतिसहस्रमितानामात्मरक्षकदेवानां सर्वसङ्ख्यया च षट्त्रिंशत्सहस्राधिकलक्षत्रयमितानां (३३६०००) ( अन्नेसिं च बहणं सोहम्मकप्पवासीणं वेमाणिआणं देवाणं देवीण यत्ति ) अन्येषां च बहूनां सौधर्मकल्पवासिनां वैमानिकानां देवानां देवीनां च (आहेवचंति ) अधिपतिकर्म-रक्षां इत्यर्थः (पोरेवच्चंति) अग्रगामित्वं (सामित्तंति) नायकत्वं (भट्टित्तंति) भर्तृत्व-पोषकत्वं ( महत्तरगत्तंति ) गुरुतरत्वं (आणाईसरसेणावञ्चति ) आज्ञया ईश्वरो यः सेनापतिः तत्त्वं, | स्वसैन्यं प्रति अद्भुतं आज्ञाप्राधान्यं इत्यर्थः (कारेमाणेत्ति) कारयन् नियुक्तैः (पालेमाणेत्ति) पालयन् | स्वयमेव, पुनः किं कुर्वन् ?-( महयत्ति) तत्र महतेति रवेण इत्यनेन योज्यते, महता शब्देनेत्यर्थः, केषां इत्याह-(अहयत्ति) अविच्छिन्नं एवंविधं यत् (नगीअत्ति ) नाटकं गीतं प्रसिद्धं (वाइअत्ति) वादितानि
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy