SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ इन्द्रवर्णने कल्प. सुबोव्या० १ ॥१७॥ कार्तिककथा ॥१७॥ LOCATKAASANAAG अम्बरतुल्यानि वस्त्राणि अम्बरवस्त्राणि तानि धरतीति अरजोऽम्बरवस्त्रधरः (आलइअमालमउडेत्ति) आलगितौ-यथास्थानं परिहितौ मालामुकुटौ येन स तथा (नवत्ति) नवाभ्यां इव (हेमत्ति) हेमसत्काभ्यां (चारुत्ति) चारुभ्यां मनोज्ञाभ्यां (चित्तत्ति) चित्राभ्यां-चित्रकारिभ्यां (चवलकुंडलत्ति) चपलाभ्यांइतस्ततः कम्पानाभ्यां, ईदृशाभ्यां कुण्डलाभ्यां (विलिहिजमाणगल्लेत्ति) विलिख्यमानौ गल्लौ यस्य स तथा (महिडूढीएत्ति) महती ऋद्धिः-छत्रादिराजचिह्नरूपा यस्य स तथा (महज्जुइएत्ति ) महती द्युतिःआभरणशरीरादिकान्तिर्यस्य स तथा ( महब्बलेत्ति ) महाबलः (महायसेत्ति) महायशाः ( महाणुभावेत्ति) महान् अनुभावो-महिमा यस्य स तथा ( महासुक्खेत्ति) महासुखः, पुनः किंवि० ?-(भासुरत्ति) भासुरं| देदीप्यमानं (बोदित्ति) शरीरं यस्य स तथा, पुनः किंवि० १-( पलंबणमालधरेत्ति) प्रबम्बा-आपादलम्बिनी वनमाला-पश्चवर्णपुष्पमाला तां धरति यः स तथा, अथ स कुत्र वर्तते इत्याह-(सोहम्मे कप्पेत्ति) सौधर्मे कल्पे (सोहम्मवडिंसए विमाणेत्ति) सौधर्मावतंसके विमाने (सुहम्माए सभाएत्ति) सुधर्मायां सभायां (सकसि सीहासणंसित्ति) शक्र इति नामके सिंहासने, अथ स किं कुर्वन् विहरतीत्याह-(से णं तत्थ बत्तीसाए विमाणावाससयसाहस्सीणति) स-इन्द्रस्तत्र-देवलोके द्वात्रिंशद्विमानावासशतसहस्राणां| द्वात्रिंशल्लक्षविमानानां इत्यर्थः (चउरासीए सामाणिअसाहस्सीणंति) चतुरशीतिसामानिकसहस्राणां, ते हि इन्द्रसमानऋद्धयः (तायत्तीसाए तायत्तीसगाणंति) त्रयस्त्रिंशत् त्रायस्त्रिंशाः, ते हि महत्तराः इन्द्रपूज्या ACCIAS -IPES
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy