SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ - तत्रागतः, एकं कार्तिकं विना सर्वोऽपि लोकस्तद्भक्तो जाता, तच्च ज्ञात्वा कार्तिकोपरि गैरिको रुष्टः, एकदा च राज्ञा निमन्त्रितोऽवदत्-यदि कार्तिकः परिवेषयति तदा तव गृहे पारणां करोमि, राज्ञा तथेति प्रतिपद्य कार्तिकायोक्तं-यत्वं मद्गृहे गैरिकं भोजय, ततः कार्तिकेणोक्तं-राजन् ! भवदाज्ञया भोजयिष्यामि, ततः | श्रेष्टिना भोज्यमानो गैरिको धृष्टोऽसीति अगुलिना नासिकां स्पृशंश्चेष्टां चकार, श्रेष्ठी दध्यौ-यदि मया पूर्व दीक्षा गृहीताऽभविष्यत्तदाऽयं न पराभविष्यदिति विचिन्त्याष्टाधिकसहस्रेण वणिकपत्रैः सह श्रीमुनिसुव्रतस्वामिसमीपे चारित्रं गृहीत्वा द्वादशाङ्गी अधीत्य द्वादशवर्षपर्यायः सौधर्मेन्द्रोऽभूत, गैरिकोऽपि निजधर्मतस्तद्वाहनं ऐरावणोऽभवत् , ततः कार्तिकोऽयमिति ज्ञात्वा पलायमानं तं धृत्वा शक्रः शीर्ष आरूढः; स च शक्र. भापनार्थ रूपद्वयं कृतवान्, शक्रोऽपि तथा, एव रूपचतुष्टयं, शक्रोऽपि तथा, ततश्चावधिना ज्ञातस्वरूपस्तं तर्जितवान् , तर्जितश्च स्वाभाविक रूपं चक्रे, इति कार्तिकश्रेष्ठिकथा ॥ (सहस्सक्खेत्ति) मन्त्रिदेवपञ्चशत्या लोचनानि इन्द्रकार्यकराणीति इन्द्रसम्बन्धीन्येवेति सहस्राक्षः (मघवंति) | मघा-महामेघा वशे सन्त्यस्येति मघवान् (पागसासणेत्ति ) पाक-दैत्यं शास्ति-शिक्षयतीति पाकशासनः HI(दाहिणवलोगाहिवइत्ति) मेरोदक्षिणतो यल्लोकार्ध तस्याधिपतिः, उत्तरलोकार्धस्य ईशानस्वामिकत्वात् (एरावणवाहणेत्ति) ऐरावणवाहनः (सुरिंदेत्ति) सुराणां इन्द्रः-आह्लादकः (बत्तीसविमाणसयसहस्साहिवइत्ति) द्वात्रिंशल्लक्षविमानाधिपतिः (अरयत्ति) अरजस्कानि-रजोरहितानि (अंबरवत्थधरेत्ति) स्वच्छतया - -
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy