________________
HAS
|कल्पाराघनफलं उपसंहारो वी
रोक्तता म.६३-६४
HASHASHAILER
आराध्य यथोक्तकरणेन ( आणाए अणुपालित्ता ) आज्ञया-जिनोपदेशेन यथा पूर्वैः पालितं तथा पश्चात् परिपाल्य ( अत्थेगइआ समणा निग्गंथा) सन्त्येके ये अत्युत्तमया तत्पालनया श्रमणा निर्ग्रन्थाः ( तेणेव | भवग्गहणेणं सिझंति) तस्मिन्नेव भवग्रहणे-भवे सिद्ध्यन्ति-कृतार्था भवन्ति ( बुज्झंति) वुद्यन्ते केवलज्ञा. नेन ( मुञ्चति ) मुच्यन्त कर्मपञ्जरात् ( परिनिब्वायंति) परिनिर्वान्ति-कर्मकृतसर्वतापोपशमनात् शीतीभवन्ति (सव्वदुक्खाणमंतं करिंति ) सर्वदुःखानां शारीरमानसानां अन्तं कुर्वन्ति, ( अत्थेगइआ दुच्चेणं भवग्गहणेणं सिझंति जाव अंतं करिंति ) सन्त्येके ये उत्तमया तु तत्पालनया द्वितीयभवग्रहणे सिद्धयन्ति यावत् अन्तं कुर्वन्ति, ( अत्थेगइआ तच्चेणं भवग्गहणेणं जाव अंत करिंति) सन्त्येके ये मध्यमया तत्पालनया तृतीयभवे | यावत् अन्तं कुर्वन्ति, ( सत्तट्ट भवग्गहणाई पुण नाइक्कमंति) जघन्ययाऽपि एतदाराधनया सप्ताट भवांस्तु पुनः नातिक्रामन्तीति भावः ।। (६)॥ अथैतत् न स्वबुद्ध्या प्रोच्यते किन्तु भगवदुपदेशपारतंत्र्येण इत्याह
(तेणं कालेणं) तस्मिन् काले-चतुर्थारकपर्गन्ते ( तेणं समएणं) तस्मिन् समये ( समणे भगवं महावीरे ) श्रमणो भगवान् महावीरः (रायगिहे नगरे ) राजगृहे नगरे समवसरणावसरे ( गुणसिलए चेइए ) गुणशैलनामचैत्ये (बहूणं समणाणं) बहना श्रमणानां (बहूणं समणीणं) बहूनां श्रमणीनां (बहूणं सावयाणं) बहनां श्रावकाणां (बहूणं सावियाणं) बहनां श्राविकाणां (बहूणं देवाणं) बहूनां देवानां (बहणं देवीणं) बहूनां देवीनां (मज्झगए चेव ) मध्यगत एव, न तु कोणके प्रविश्य प्रच्छन्नतयेति भावः ( एवमाइक्खह)