________________
कल्प,सखो ध्या .९ १९२॥
तदिनापराधक्षमणा
॥१९२॥
CASHAIN56454RCHURS
दागच्छन् दशपुरे वर्षासु तस्थौ, वार्षिकपर्वणि च स्वयमुपवासं चक्रे, भूपादिष्टसूपकारेण भोजनार्थ पृष्ठेन चण्डप्रद्योतेन विषभिया श्राद्धस्य ममाप्यद्योपवास इति प्रोक्ते धृतसाधार्मकेऽप्यस्मिनक्षमिते मम प्रतिक्रमणं न शुद्ध्यतीति तत्सर्वस्वप्रदानतस्तद्भाले मम दासीपतिरित्यक्षराच्छादनाय स्वमुकुटपट्टदानतश्च श्रीउदयनराजेन चण्डप्रद्योतः क्षमितः, अत्र श्रीउदयनराजस्यैवाराधकत्वं, तस्यैवोपशान्तत्वात् । कचिचोभयोरप्याराधकत्वं, तथाहि--अन्यदा कौशाम्यां सूर्याचन्द्रमसौ स्वविमानेन श्रीवीरं वन्दित्वा समागच्छतः स्म, चन्दना च दक्षा अस्तसमयं विज्ञाय स्वस्थानं गता, मृगावती च सूर्यचन्द्रगमनात्तमसि विस्तृते सति रात्रि विज्ञाय भीता उपाश्रयमागत्यर्यापथिकी प्रतिक्रम्य निद्राणां चन्दनां प्रवर्तिनी क्षम्यतां ममापराध इत्युक्तवती, चन्दनापि भद्रे ! कुलीनायास्तवेदृशं न युक्तमित्युवाच, साऽप्यूचे-भूयो नेदृशं करिष्ये इति पादयोः पतिता तावता प्रवर्तिन्या निद्राऽऽगात्, तया च तथैव क्षमणेन केवलं प्राप्त, सर्पसमीपात् करापसारणव्यतिकरण प्रबोधिता प्रवर्तिन्यपि कथं सर्पोऽज्ञायीतिपृच्छन्ती तस्याः केवलं ज्ञात्वा मृगावती क्षमयन्ती केवलमाससाद, तेनेहशं मिथ्यादुष्कृतं देयं, न पुनः कुम्भकारक्षुल्लकदृष्टांतेन, तथाहि--कश्चित् क्षुल्लको भाण्डानि काणीकुर्वन् कुम्भ४ कारेण निवारिनो मिथ्यादुष्कृतं दत्ते न पुनस्ततो निवर्तते, ततः स कुम्भकारोऽपि कर्करैः क्षुल्लककर्णमोटनं |
कुर्वन् पुनः पुनः क्षुल्लेन पीडयेऽहमित्युक्तोऽपि मुधा मिथ्यादुष्कृतं ददौ ॥ (५१)। ' (वासावासं पज्जोमवियाणं ) चतुर्मासकं स्थितानां (कप्पइ निग्गंथाण वा निग्गंधीण वा तओ उवस्सया