SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ काय, सूबो व्या० ९ ॥१९२॥ नमपि अधिकरणं तद् वक्तुं न कल्पते (जे णं निग्गंथो वा निग्गंथी वा परं पज्जोसवणाओ अहिगरणं वयह) यश्च माधुः साध्वी वा पर्युषणातः परं अज्ञानात् क्लेशकारि वचनं वदति ( से णं ' अकप्पेणं अज्जो वयसित्ति ' वत्तव्वे मिया ) स एवं वक्तव्यं, स्यात् - हे आर्य! त्वं अकल्पेन - अनाचारेण वदसि, यतः पर्युषणादिनतोऽर्वा तद्दिने एव वा यदधिकरणं उत्पन्नं तत् पर्युषणायां क्षमितं यच्च त्वं पर्युषणातः परं अपि अधिकरणं वदसि सोऽयमकल्प इति भावः ( जे णं निग्गंथो वा निग्गंधी वा परं पज्जोसवणाओ अहिगरणं वयइ से णं निज्जुहियव्वे सिया ) यश्चैवं निवारितोऽपि साधुर्वा साध्वी वा पर्युषणातः परं अधिकरणं वदति स निहितव्यः - ताम्बू लिकपत्रदृष्टान्तेन सङ्घाद् बहिः कर्त्तव्यः, यथा ताम्बूलिकेन विनष्टं पत्रं अन्यपत्रविनाशनभयाद् बहिः क्रियते तद्वदयमप्यनन्तानुबन्धिक्रोधाविष्टो विनष्ट एवेत्यतो बहिः कर्त्तव्य इति भावः, तथाऽन्योऽपि द्विजदृष्टान्तो यथा - खेटवास्तव्यो रुद्रनामा द्विजो वर्षाकाले केदारान् ऋष्टुं हलं लात्वा क्षेत्रं गतो, हलं वाह्यतस्तस्य गली बलीवई उपविष्टः, तोत्रेण ताड्यमानोऽपि यावन्नोत्तिष्ठति तदा क्रुद्धेन तेन केदार त्रयमृत्खण्डैरे वाहन्यमानो मृत्खण्डस्थगितमुखः श्वासरोधान्मृतः, पश्चात् स पश्चात्तापं विदधानो महास्थाने गत्वा स्ववृत्तान्तं कथयन्नुपशान्तो न वेति तैः पृष्टो नाद्यापि ममोपशान्तिरिति वदन् द्विजैरपाङ्क्तेयश्चक्रे, एवं अनुपशान्तकोपतया वार्षिकपर्वणि अकृतक्षामणः साध्वादिरपि, उपशान्तोपस्थितस्यैव मूलं दातव्यं ॥ (५८) । ( वासावासं पज्जोसवि या हह ग्वलु निरगंधाण वा निग्गंधीण वा ) चतुर्मासकं स्थितानां इह निश्चयेन साधूनां साध्वीनां च ( अजेव अधिकरणनिषेधः स ५८ ॥१९१॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy