________________
SHEKHANAका
स्यात्, यदि क्षुरेण मुण्डापयति कर्ता वा तदाऽऽज्ञाभङ्गाद्याः दोषाः संयमात्मविराधना, यूकाश्छिद्यन्ते नापितश्च पश्चात्कर्म करोति शासनापभाजना च, ततो लोच एव श्रेयान् , यदि चासहिष्णोलोंचे कृते ज्वरा
लोचविवि दिर्वा स्यात् कस्यचिद् बालो वा रुद्याद् धर्म वा त्यजेत्ततो न तस्य लोच इत्याह-(अज्जेणं खुरमुंडेण वा लुक्क
काम.१७ | सिरएण वा होयव्वं सिया) आर्यण-साधुना उत्सर्गतो लुनितशिरोजेन, अपवादतो बालग्लानादिना मुण्डितशिरोजेन भवितव्यं स्यात् , तत्र केवलं प्रासुकोदकेन शिरः प्रक्षाल्य नापितस्यापि तेन करौ क्षालयति, यस्तु
क्षुरेणापि कारयितुमसमर्थों व्रणादिमच्छिरा वा तस्य केशाः कर्तर्या कल्पनीयाः। ( पक्खिया आरोवणा) ६ पक्षे पक्षे संस्तारकदवरकाणां बन्धा मोक्तव्याः प्रतिलेखितव्याश्चेत्यर्थः, अथवा आरोपणाप्रायश्चित्तं पक्षे पक्षे है ग्राह्यं सर्वकालं, वर्षासु विशेषतः, (मासिए खुरमुंडे) असहिष्णुना मासि मासि मुण्डनं कारणीयं ( अद्धमा
सिए कत्तरिमुंडे ) यदि कतर्या कारयति तदा पक्षे पक्षे गुप्तं कारणीयं, क्षुरकर्तर्योश्च लोचे प्रायश्चित्तं निशी-| थोक्तं यथासङ्घथं लघुगुरुमासलक्षणं ज्ञेयं । ( छम्मासिए लोए ) पाण्मासिको लोचः (संवच्छरिए वा थेरकप्पे ) स्थविराणां-वृद्धानां जराजर्जरत्वेनासामर्थ्याद् दृष्टिरक्षार्थ च 'संवच्छरिए वा थेरकप्पेत्ति सांवत्सरिको वा लोचः स्थविरकल्पे स्थितानामिति, अर्थात्तरुणानां चातुर्मासिक इति । (५७)॥ | (वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंथाण वा निग्गंथीण वा) नो कल्पते साधूनां साध्वीनां च (परं पज्जोसवणाओ अहिगरणं वइत्तए) पर्युषणातः परं अधिकरणं-राटिस्तस्करं वच.
ROSAROKAR
RCH