________________
CRECAS
उच्चारादिभूमयःम
EACHEREKHA
प्राप्तः, अस्य न्यायस्यानित्यत्वादत्रोपसर्गस्य व्यवधायकत्वं भविष्यतीत्यपि न वाच्यं, न हि खल्विषये उपसर्गस्य: व्यवधायकत्वं 'उपसर्गात् खल्बो 'श्चेतिसूत्रेण ईषत्प्रलंभं दुष्प्रलंभं इत्यादिप्रयोगज्ञापनादिति दिक । आदानमुक्त्वाऽनादानमाह-(अणायाणमेयं) कर्मणा दोषाणां वा अनादानं-अकारणं एतत्-अभिगृहीतशय्यासनि कत्वं उच्चाकुचशय्याकत्वं सप्रयोजनं पक्षमध्ये सकृच्च शय्यावन्धकत्वमिति, तदेव द्रढयति-(अभिग्गहियसि|ज्जासणियस्स) अभिगृहीतशय्यासनिकस्य (उच्चाकुड़ अस्स) उच्चाकुचिकस्य ( अट्ठावंधिस्स) अर्थाय बन्धिनः ( मियासणियस्स ) मितासनिकस्य ( आयावियस्स) आतापिनो-वस्त्रादेरातपे दातुः ( समियस्स ) समितस्य-समितिषु दत्तोपयोगस्य ( अभिक्खणं अभिक्खणं पडिलेहणासीलस्स पमजणासीलस्स) अभीक्ष्णं अभीक्ष्णं प्रतिलेखनाशीलस्य प्रमार्जनाशीलस्य ईदृशस्य साधोः (तहा तहा संजमे सुआराहए भवइ ) तथा तथा-तेन तेन प्रकारेण संयमः सुस्वाराध्यो भवति ॥ (५४)॥
(वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (कप्पइ.णिग्गंधाण वा णिग्गंथीण वा तओ उच्चारपासवणभूमीओ पडिलेहित्तए) कल्पते साधूनां साध्वीनां तिस्रः उच्चारप्रश्रवणभूम्यः, अनधिसहिष्णोस्तिस्रोऽन्तः | अधिसहिष्णोश्च बहिस्तिस्रो, दूरच्याघातेन मध्या भूमिस्तदयाघाते चासन्नेति आसन्नमध्यदूरभेदात्रिधा भूमिः प्रतिलेखितव्या (न तहा हेमंतगिम्हासु जहा णं वासासु) न तथा हेमन्तग्रीष्मयोर्यथा वर्षासु (से किमाहु भंते !) तत् कुतो हेतोः हे पूज्य ! इति पृष्टे गुरुराह-(वासासु णं ओसन्नं पाणा य तणा य बीया य पणगा य