SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ SACARRC-IAC-CANCERT-40 | शाकटायन ७ वामन ८ विश्रान्त ९ बुद्धिसागर १० सरस्वतीकण्ठाभरण ११ विद्याधर १२ कलापक १३| भीमसेन १४ शैव १५ गौड १६ नन्दि १७ जयोत्पल १८ मुष्टिव्याकरण १९ जयदेवाभिधानानि २०, | (छदेत्ति) छन्द, शास्त्रे (निरुत्तत्ति) पदभञ्जने व्युत्पत्तिरूपे टीकादौ इत्यर्थः (जोइसामयणेत्ति) ज्योति: शास्त्रे ( अन्नेसु अ बहुसुत्ति ) एषु पूर्वोक्तेषु अन्येषु च बहुषु (बंभण्णएसुत्ति) ब्राह्मणहितेषु शास्त्रेषु (परिव्वायएसुत्ति) परिव्राजकसम्बन्धिषु (नएस) नयेषु-आचारशास्त्रेषु (सुपरिनिट्ठिए यावि भविस्सइत्ति) अतिनिपुणो भविष्यतीति योगः (१)॥ (तं उराला णं तुमे देवाणुप्पिए! सुमिणा दिवा) तस्मात् कारणात् उदाराः त्वया हे देवानुप्रिये! स्वप्ना दृष्टाः (जाव आरुग्गतुट्ठिदीहाउमंगल्लकारगा गंति) यावत् आरो|ग्यतुष्टिदीर्घायुःकल्याणमङ्गलानां कारकाः (तुमे देवाणुपिए ! सुमिणा दिट्ठत्ति) त्वया हे देवानुप्रिये स्वप्ना दृष्टाः (इतिकटुत्ति) इतिकृत्वा (भुजो भुजो अणुवूहइत्ति) भूयो भूयो-वारं वारं अनबृहयति-अनुमोदयति (१०) ॥ (तए णं सा देवाणंदा माहणीति) ततः सा देवानन्दा ब्राह्मणी (उसभदत्तस्त माहणस्स अतिए) ऋषभदत्तस्य ब्राह्मणस्य पार्श्वे (एयमढे सुच्चत्ति) इमं अर्थ श्रुत्वा (निसम्मत्ति) चेतसा अवधार्य (हहतुट्ठजावहिययत्ति) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया (करयलपरिग्गहिय दशनहं मिरसावत्तं मत्थर अंजलिं कट्टु) करतलाभ्यां कृतं दश नखा मिलिताः यत्र तं, शिरसि आवर्ती यत्र तं, ईदृशं मस्तके करसम्पुटं कृत्वा (उमभदत्तं माहणं)ऋषभदत्तं ब्राह्मणं (एवं वयासी) ततः सा देवानन्दा एवं अवादीत् (११) ॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy