SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० १ ॥१५॥ तमात्रं यस्य स तथा, क्रमाच्च किंवि० ( जोव्वणगमणुपत्तेत्ति ) यौवनं अनुप्राप्तः पुनः किंवि० ? - (रिउब्वेअजउब्बेअ— सामवेअ- अथ वणवे अत्ति ) अत्र षष्ठीबहुवचनलोपात् ऋग्वेद १ यजुर्वेद २ सामवेद ३अथर्वण ४ वेदानां कीदृशानां ? - ( इतिहासपञ्चमाणंति ) इतिहासपुराणं पञ्चमं येषां ते तथा तेषां पुनः कीदृशानां ? - ( निघंटुछट्टाणंति) निर्घण्टुः - नामसङ्ग्रहः षष्ठो येषां ते तथा तेषां पुनः कीदृशानां ? - (संगोबंगाणंति) अङ्गोपाङ्गसहितानां तत्र अङ्गानि - शिक्षा १ कल्पो २ व्याकरण ३ छन्दो ४ ज्योति ५ र्निरुक्तयः ६, उपांगानि-अंगार्थविस्तररूपाणि, पुनः कीदृशानां ? - ( सरहस्साणंति) तात्पर्ययुक्तानां (चउण्हं वेयाणंति) ईदृशानां पूर्वोक्तानां चतुर्णां वेदानां (सारएति ) स्मारकः, अन्येषां विस्मरणे ( वारएत्ति) वारकः अन्येषां अशुद्ध पाठनिषेधात् ( धारएत्ति) धारणसमर्थः, ईदृशो दारको भावी, पुनः किंवि० १- ( सडंगवित्ति ) पूर्वोतानि षट् अंगानि वेत्ति-विचारयतीति षडंगवित्, ज्ञानार्थत्वे तु पौनरुक्त्यं स्यात्, पुनः किंवि०९ - ( सहितंविसारएत्ति) षष्टितन्त्र- कापिलीयं शास्त्रं तत्र विशारदः - पण्डितः पुनः किंवि ०१ - ( संखाणेत्ति) गणितशास्त्रे, यथा - 'अर्ध तोये कर्दमे द्वादशांशः, षष्ठो भागो वालुकायां निमग्नः । सार्धं हस्तो दृश्यते यस्य तस्य, स्तम्भस्याशु ब्रूहि मानं विचिन्त्य ॥ १॥ स्तम्भो हस्ताः ६, क्वचित् (सिक्खाणेति पाठः) तत्र सिक्खाणशब्देन आचारग्रन्था, ( सिक्खाकप्पेति) शिक्षा-अक्षराम्नायग्रन्थः कल्पश्च यज्ञादिविधिशास्त्रं तत्र, तथा ( वागरणेत्ति ) व्याकरणे- शब्दशास्त्रे, तानि च विंशतिः - ऐन्द्र १ जैनेन्द्र २ सिद्धहेमचन्द्र ३ चान्द्र ४ पाणिनीय ५ सारस्वत ६ पुत्रस्वरूपे यौवनख - रूपं सू. ९ ॥१५॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy