SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ द्रोणमानं भवेत् तदा स पुरुषो मानप्राप्तः, यदि च तुलारोपितोऽर्ध भारमानः स्यात् तदा स उन्मानप्राप्तः, तत्र भारमानं - 'षट्सर्षपैर्य वस्त्वेको, गुजैका च यवैस्त्रिभिः । गुञ्जात्रयेण वल्लः स्याद्, गयाणे ते च षोडश ॥ १ ॥ पले च दश गयाणास्तेषां शार्धशतं मणे । मणैर्दशभिरेका च, घटिका कथिता बुधैः ॥२॥ घटिभिर्दशभिस्ताभिरेको 'भारः प्रकीर्त्तितः ।' अत्र 'तेषां सार्द्धशतं मणे' इति तेषां गद्याणानां इति वाच्यं, न तु पलानां, पलानां सार्धशतेन मणकथने हि भारे अष्टसप्ततिर्मणाः स्युः, तदर्ध च एकोनचत्वारिंशन्मणाः, एतावच्च शरीरमानं न सम्भवति, गयाणानां सार्धशतेन मणकथने तु भारे चत्वारिंशत्शेरमानेन पादोना अष्ट मणाः किश्चिदधिका जायन्ते, सम्भवति च तदर्धमानं पञ्चशेराधिकपादोनचतुर्भणप्रमाणं शरीरमिति, संभवति च गद्याणकानां सार्धशतस्यापि मणत्वं क्वचिद्देशे किश्चिदूनशेरत्रयस्यापि मणत्वव्यवहारात्, तथा 'प्रमाण' त्ति स्वांगुलेन अष्टोत्तरशतांगुलोच्च उत्तमपुरुषः, मध्यहीनपुरुषौ च षण्णवतिचतुरशीत्यगुलोचौ स्यातां, अत्र उत्तमपुरुषोऽपि अन्य एव, तीर्थङ्करस्तु द्वादशांगुलोष्णीषसद्भावेन विंशत्यधिकशतांगुलोच्चो भवति, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि सुजातानि सर्वाङ्गानि - शिरः प्रमुखाणि यत्र एवंविधं सुन्दर अङ्गं यस्यस तथा तं पुनः किंवि० (ससिसोमागारेत्ति) शशिवत्सौम्याकारं (कन्तन्ति ) कमनीयं ( पियदंसणंति ) वल्लभदर्शनं ( सुरूवंति ) शोभनरूपं ( दारयं पयाहिसित्ति) दारकं प्रजनिष्यसीति ज्ञेयम् (८) ॥ ॥ (सेवि अ ण दारएत्ति) सोऽपि दारक एवंविधो भविष्यति, किंवि० ?(उम्मुकबालभावेत्ति ) त्यक्तवाल्यो - जाताष्टवर्ष:, पुनः किंवि० : - ( विन्नायपरिणयमित्तेत्ति) विज्ञानं परिण
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy