SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ विवक्षिताय पुरुषसन्ततिः शाखा, यथाऽस्मदीया वैरस्वामिनाम्ना वैरीशाखा, कुलानि तु तत्तच्छिष्याणां पृथकू पृथगन्वयाः, यथा चन्द्रकुलं नागेन्द्रकुलमित्यादि ( तंजहा ) तद्यथा - (थेरस्स णं अज्जजसमद्दस्स तुंगियायणगुत्तरस ) स्थविरस्य आर्ययशोभद्रस्य तुङ्गिकायनगोत्रस्य ( इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था ) इमौ द्वौ स्थविरौ अन्तेवासिनौ ' अहावच्चा' न पतन्ति यस्मिन्नुत्पन्ने दुर्गतौ अयशःपङ्के वा पूर्वजास्तदपत्यं पुत्रादिस्तत्सदृशौ यथापत्यौ, अत एव 'अभिन्नाया' अभिज्ञातौ प्रसिद्धौ अभूतां (तंजा ) तद्यथा (थेरे अभद्दवाहू पाइणसगुत्ते ) स्थविर आर्यभद्रबाहुः प्राचीनगोत्रः ( थेरे अज्जसंभूहविजए माढरसगुत्ते ) स्थविरः आर्यसम्भूतिविजयः माढरगोत्रः (थेरस्स णं अज्जभद्दबाहुस्स पाइणसगुत्तस्स ) स्थविरस्य आर्यभ द्रबाहोः प्राचीनगोत्रस्य (इमे चत्तारि थेरा अंतेवासी आहावच्चा अभिन्नाया हुत्था) एते चत्वारः स्थविरा: अन्तेवासिनो यथापत्याः प्रसिद्धा अभवन् (तंजहा) तद्यथा (थेरे गोदासे, घेरे अग्गिदत्ते, थेरे जन्नदत्ते, थेरे सोमदत्ते, कासवगुत्तणं) स्थविरः गोदासः १ स्थविरः अग्निदत्तः २ स्थविरः यज्ञदत्तः ३ स्थविरः सोमदत्तः ४ काश्यपगोत्रः (थेरेहिंतो गोदासेहिंतो कासवगुत्तेर्हितो ) स्थलिरात् गोदासात् काइपगोत्रात् ( इत्थ णं गोदासगणे नाम गणे निग्गए) अत्र गोदासनामको गणो निर्गतः (तस्स णं इमाओ चत्तारि साहाओ एवमाहिनंति) तस्य एताचतस्रः शाखा एवं आख्यायन्ते ( तंजहा ) तद्यथा ( तामलित्तिया कोडिवरिसिया पुंडवद्धणीया दासीखन्यडिया ) तामालिप्तिका १ कोटिवर्षका २ पुण्ड्रवर्द्धनिका ३ दासीखर्बटिका ४ ( थेरस्स णं अज्जसंभूहविजयस्स विस्तृतवाचना
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy