________________
अनानि तेषां गुणास्तैरूपपेतं, तत्र लक्षणानि छत्रचामरादीनि चक्रितीर्थकृतां अष्टोत्तरसहस्रं बलदेववासुदेवानां | अष्टोत्तरशतं अन्येषां तु भाग्यवतां द्वात्रिंशत्, तानि चेमानि-'छत्रं १ तामरसं २ धनू २ रथवरो४ दम्भोलि ५. कूर्मा६ कुशा ७, वापी ८ स्वस्तिक ९ तोरणानि १० च सरः ११ पश्चाननः १२ पादपः१३ । चक्रं १४ शङ्ख १५गौ १६ समुद्र १७ कलशौ १८ प्रासाद १९ मत्स्या २० यवा १, यूप २२ स्तूप २२ कमण्डलू २४ न्यवनिभृत् २५ सचामरो २६ दर्पणः २७ ॥१॥ उक्षा २८ पताका २९ कमलाभिषेका ३०, सुदाम ३१ केकी ३२ घनपुण्यभाजाम् ।। तथा 'इह भवति सप्तरक्तः षड्डन्नतः पश्चसूक्ष्मदीर्घश्च । त्रिविपुललघुगम्भीरो द्वात्रिंशल्लक्षणः स पुमान् ॥१॥ तत्र सप्त रक्तानि-नख १ चरण २ हस्त ३ जिह्वा ४ ओष्ठ ५ तालु ६ नेत्रान्ताः ७, बडन्नतानि-कक्षा
हृदयं २ ग्रीवा ३ नासा ४ नवा ५ मुखं च ६, पश्च सूक्ष्माणि-दन्ताः१ स्वक् २ केशा ३ अङ्गुलिपर्वाणि ४ नस्वाश्च ५, तथा पञ्च दीर्घाणि-नयने १ हृदयं २ नासिका ३ हनुः ४ भुजौ च ५, त्रीणि विस्तीर्णानि-भालं १ उस २ वदनं च ३, त्रीणि लघूनि-ग्रीवा १ जङ्घा २ मेहनं च ३, त्रीणि गम्भीराणि-सत्त्वं १ स्वरः २ नाभिश्च ३, मुखमर्ध शरीरस्य, सर्व वा मुखमुच्यते । ततोऽपि नासिका श्रेष्ठा, नासिकायाश्च लोचने ॥१॥ यथा नेत्रे तथा
शीलं, यथा नासा तथाऽऽर्जवम् । यथा रूपं तथा वित्तं, यथा शीलं तथा गुणाः ॥२॥ अतिहस्वेऽतिदीर्धेऽति| स्थूले चातिकृशे तथा । अतिकृष्णेऽतिगौरे च, षट् सत्त्वं निगद्यते ॥३॥ सद्धर्मः सुभगो नीरुक्, सुस्वनः सुनयः कविः । सूचयत्यात्मनः श्रीमान, नरः स्वर्गगमागमौ॥४॥ निर्दम्भः सदयो दानी, दान्तो दक्षः सदा ऋजुः ।