________________
SA
समाहारद्विगुभवनात्, तदनु राज्ञा पुरात्सर्वबिडालिकाकर्षणेऽपि सप्तमदिने स्तन्यं पिवतो बालस्योपरि बिडालिकाकारवकमार्गलापातेन मरणे गुरूणां प्रशंसा तस्य निन्दा च सर्वत्र प्रससार, ततः कोपान्मृत्वा व्यन्तः भूयाशिवोत्पादादिना स उपसर्गयन् उपसर्गहरं स्तोत्रं कृत्वा श्रीगुरुभिर्निवारितः उक्तं च-उवसग्गहरं थुत्तं काऊ जेण सङ्घकल्लाणं । करुणापरेण विहिअं स भद्दवाहू गुरू जयउ ॥ १ ॥
(थेरस्स णं अजसमूहविजयस्स माढरसगुत्तस्स ) स्थविरस्य आर्यसम्भूतिविजयस्य माढरगोत्रस्य ( अंतेवासी थेरे अज्जथूलभद्दे गोयमसगुत्ते ) शिष्यः स्थविरः आर्यस्थूलभद्रः गौतमगोत्रोऽभूत्, स्थूलभद्रसम्बन्ध - चैवं पाटलिपुरे शकटालमन्त्रिपुत्रः श्रीस्थूलभद्रो द्वादश वर्षाणि कोशागृहे स्थितो, वररुचिद्विजप्रयोगात् पितरि मृते नन्दराजेनाकार्य मन्त्रिमुद्रादानायाभ्यर्थितः सन् पितृमृत्युं स्वचित्ते विचिन्त्य दीक्षामादत्त, पश्चाच्च सम्भूतिविजयान्तिके व्रतानि प्रतिपद्य तदादेशपूर्वकं कोशागृहे चतुर्मासीमस्थात्, तदन्ते च बहुहावभावविधायिनीमपि तां प्रतिबोध्य गुरुसमीपमागतः सन् तैः दुष्कर दुष्करकारक इति सङ्घसमक्षं प्रोचे, तद्वचसा च पूर्वायाताः सिंहगुहासर्प बिलकूपकाष्ठस्थायिनस्त्रयो मुनयो दूनाः, तेषु सिंहगुहस्थायी मुनिर्गुरुणा निवार्यमाणोऽपि द्वितीयचतुर्मास्यां कोशागृहे गतो, दृष्ट्वा च तां दिव्यरूपां चलचित्तोऽजनि तदनु तथा नेपालदेशानाथितरत्नकम्बलं खाले क्षिन्त्वा प्रतिबोधितः सन्नागत्योवाच- स्थूलभद्रः स्थूलभद्रः, स एकोsवि. १ उपसर्गहरं स्तोत्रं कृत्वा येन संघकल्याणम् । करुणापरेण विहितं स भद्रबाहुर्गुरुर्जयतु ॥ १ ॥
श्रीस्थूलमद्रवृतम्