________________
कल्प-सुबोध्या०८ ॥१६॥
श्रीभद्रबाहुखरूपम्
मा॥१६१॥
%C4-6CCCREASCARS
शिष्यः तुङ्गिकायनगोत्रोऽभूत् ५। अतः परं प्रथम सङ्क्षिसवाचनया स्थविरावलीमाह-(संखित्तवायणाए अज्जजसभद्दाओ अग्गओ एवं थेरावली भणिया) सङ्क्षिप्तवाचनया आर्ययशोभद्रात् अग्रतः एवं स्थविरावली कथिता (तंजहा) तद्यथा-( थेरस्स णं अज्जजसभहस्स तुंगियायणसगुत्तस्स ) स्थविरस्य आर्ययशोभद्रस्य तुङ्गिकायनगोत्रस्य (अंतेवासी दुवे थेरा-धेरे संभूइविजए माढरसगुत्ते) शिष्यो द्वौ स्थविरो, स्थविरः सम्भूतिविजयः माढरगोत्रः १ (थेरे अजभद्दवाहू पाईणसगुत्ते ) स्थविर: आर्यभद्रबाहुश्च प्राचीनगोत्रः २, श्रीयशोभद्रपट्टे श्रीसम्भूतिविजयश्रीभद्रबाहुनामको द्वौ पट्टधरौ जातो, तत्र भद्रबाहुसम्बन्धश्चैवं-प्रतिष्ठानपुरे वराहमिहिर भद्रबाहू द्विजो प्रवजितौ, भद्रबाहोराचार्यपददाने रुष्टः सन् वराहो द्विजवेषमादृत्य वाराही संहितां कृत्वा निमित्तैर्जीवति, वक्ति च लोके-काप्यरण्ये शिलायां अहं सिंहलग्नममण्डयं, शयनावसरे तदभञ्जनं स्मृत्वा लग्नभक्त्या तत्र गतः, सिंहं दृष्ट्वापि तस्याधो हस्तक्षेपेण लग्नभने कृते सन्तुष्टः सिंहलग्नाधिपः सूर्यः प्रत्यक्षीभूय स्वमण्डले नीत्वा सर्व ग्रहचारं ममादर्शयदिति, अन्यदा वराहेण राज्ञः पुरो लिग्वितकुण्डालकमध्ये द्विपञ्चाशत्पलमानमत्स्यपाते कथिते श्रीभद्रबाहुभिस्तस्य मत्स्यस्य मार्गेऽर्धपलशोषात् सार्धकपञ्चाशत्पलमानता कुण्डालकप्रान्ते पातश्च उक्तो मिलितश्च । तथाऽन्यदा तेन नृपनन्दनस्य शतवर्षायुर्वर्त्तने एते न व्यवहारज्ञा | नृपपुत्रस्य विलोकनार्थमपि नागता इति जैननिन्दायां चेक्रियमाणायां गुरुभिः सप्तभिर्दिनैर्बिडालिकातो मृतिरूचे, अत्र किरणावलीकारेण सप्तदिनैरिति समस्तः प्रयोगो लिखितः, स तु वैयाकरणश्चिन्त्यः, सङ्घयया
CC4549+
3GE
+